SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिशिका / 139 wwwwwwwwwwwwww विचित्र्यं किं निबन्धनमित्याकाक्षायामाह--भावना-प्रतिपत्तिभ्यामिति ये निरन्तरमनुलोम-प्रतिलोमाभ्यां यत्र कुत्रापि कार्ये व्यापृतो ग्रन्थमेव भावयन्ति तमेवेत्थमेवात्र पाठो गुरुमुखान्मया श्रुत इत्येवमभ्युपगच्छन्ति ते भावना-प्रतिपत्तिभ्यां ग्रन्थशकयो भवन्ति, ये पुनः शब्दो यथा तथा भवतु विषयः स्वयमेवेत्येवेत्येवं निरन्तरं भावयति तथैव चार्थ प्रतिपद्यन्ते नान्यथा तेऽर्थशक्तयो भवन्ति, ये पुनः ईदृश एव शब्दोऽमुमर्थं प्रतिपादयतुं शक्तः, अयमेव चार्थोऽस्य शब्दस्य योग्यो नान्य इत्येवं शब्दमर्थ च निरन्तरं भावयन्ति तथैव प्रतिपद्यन्ते ऊहापोहाभ्यां ते प्रन्थार्थोभयसमर्था भवन्तीत्यर्थः, इत्थम् अनेकाः अनेकप्रकाराः, शैक्षभक्तयः शैक्षाणां विभागा इत्येवं शिक्षणं न्याय्यमित्यर्थः / / 5 / / तेषामाचारशासनमुपदर्शयति कर्तप्रयोजनापेक्षस्तदाचारस्त्वनेकधा / चिकित्सितवदेकार्थप्रतिलोमानुलोमतः // 6 // कर्तृप्रयोजनापेक्ष इति / तु पुनः, तदाचारः शैक्षपुरुषस्याचारः आचरणम्, कर्तृप्रयोजनापेक्षः अस्याचारस्येदृश एव कर्ता यदि भवेत् तदैवायमा. चारः समीचीनो भवितुमर्हति नान्यथेत्येवं कर्तृविशेषापेक्षः, तथेदमेव प्रयोजनं कर्तुरभीष्टं फलमेताहशाराचाराद् युक्त नान्यादृर्शामतीदृशाप्रयोजनेच्छावत एवायमाचार उचित इत्येवं प्रयोजनविशेषापेक्ष इति कर्तृप्रयोजनापेक्षः तथा च विभिन्नकतृविभिन्न प्रयोजनापेक्षत्वात् , अनेकधाऽनेकप्रकारः शैक्षाचार इत्यर्थः, न केवलं कर्तृप्रयोजनभेदादेव शैक्षाचारस्यानेकप्रकारत्वं किन्तु एकार्थप्रतिलोमानुलोमत:. एकस्मिन्नेवार्थे, प्रतिलोमेन आचारो भवति अनुलोमेनाप्याचारो भवति, तत्र प्रतिलोमकृततद्विषयाचारादन्या एवानुलोमकृतद्विषयाचार इत्येवमेवार्थप्रतिलोमानुलोमतोऽनेकधा तदाचारः, तत्र दृष्टान्तमाह-चिकित्सितवदिति, व्याध्युपशमार्थ क्रियमाणमौषधाद्यासेवनं चिकित्सितं तद्यथैव तदोषधोपयोगानन्तरमेतदौषधोपयोगे क्रियमाणेऽयं व्याधिविनश्यात, तत्रैव पूर्वस्य पश्चादुपयोगः उत्तरस्य पूर्वमुपयोग इत्येवंकरणेन स व्याधिनश्यति किन्तु वर्धत एव अन्यो वा व्याधिरुत्पद्यते तथोपयोगे, तथेत्येवं शैक्षाचारशासनमित्यर्थः // 6 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy