________________ 438 दिवाकर कृता किरणाबलीकलिता अष्टादशी द्वात्रिंशिका / / विषये तस्यैवेन्द्रियस्य संसर्गे सनि शममभिजनस्य संसारिणो रागादय उपशान्ता भवन्तीत्येवं सर्वप्राणिनां विषयेन्द्रिययोः साधारणत्वादित्यर्थः, इति एवंस्वस्पं शासनं, सर्वार्थ सर्वप्राणिनो हितमत्यर्थः // 3 // शासनविशेषमुपदर्शनमुपदर्शयतिहीनानां मोहभूयस्त्वाद् बाहुल्याच्च विरोधिनाम् / विशिष्टानुप्रवृत्तेश्च कल्याणाभिजनो मतः // 4 // होनानामिति / हीनानां नीचकुलोत्पन्न वादिनामत्संगत्याप्तभावेन च कुत्सितकार्यकरणादिना च सबुद्धयादिविहीन नां जनानाम् , मोहभूयस्त्वाद अज्ञानबाहुल्यात् , विरोधिनाम् अकारणविद्रोहनिन्दादिकार्यपरायणत्वेन विरोधभाजां शत्रुणाम् , बाहुल्याच्च बहुविधत्वाच्च, आभ्यां दारणाभ्यां हीनजन्गनु अनतो विरो धजनसहवासतश्च कल्याणं न भवतीति तत्परित्यागशाल्येव कल्याणभागीति सूचितम् , विशिष्टानुप्रवृत्तेश्च सदाचारादिना स्वती 'वशिष्टा येपुरुषास्तेषा मनुव्रजनाच्च तदाचरणसमरा लाचरणतश्च, कल्याणाभिजनः कल्याण प्रदअन्मभाग्, मतः पूर्व मूरिभिः सम्मतः अनेन सत्पुरुषः चरणसमशोलाचरणेन सत्साधुसेवापरेण सन्मार्गत्वे गमनशालिना जनेन भाव्यमिति शिक्षणमुपदर्शितमिति / / 4 / / येषामात्मनां शासनशिक्षणं क्रियते ते शैक्षः बहुविधा इत्युपदर्शयति-.. उत्पन्नोत्पाद्यसंदेहा ग्रन्थार्थो भयशक्तयः / भावना-प्रतिपत्तिभ्यामनेका शैक्षमक्तयः // 5 // उत्पन्नोत्पाद्यसंदेहा इति / उत्पन्नोत्पाद्यसंदेहाः केचिच्छेक्षा: साधारणधर्मवद्धर्मिज्ञानासाधारणधर्मवद्धर्मिज्ञानविप्रतिपत्तीनां त्रयाणां मध्यात् केनचित् कारणेन स्वत एवोत्पन्न: मन्देहो बिरोधिभावाभावोमयप्रकारकैकधर्मिविशेष्यकबोधो येषां ते उत्पन्नसन्देहा: शैक्षाः येषां पुन: शिक्षकोपदर्शितयुक्तिनिकरतः शिक्षाकाल एव प्राप्त: सन्देहस्ते उत्पाद्यसंदेहाः शैक्षा: इत्येवमुत्पन्नोत्याद्यसंदेहाः, तथा ग्रन्थार्थोभयशक्तयः केचित् अन्यशक्तयः शब्दस्वरूपावधारणानुकूलसामर्थ्यवन्तः निरन्तरशब्दाभ्यासपटवः, केचित् अर्थशक्तयः ग्रन्थस्यार्थं सम्यगवधारयितुं प्रगल्भाः केचिच्छन्दमर्थ चावधारयितुं प्रभविष्णव इत्येवं ग्रन्थार्थोभयशक्तयः, शैक्षाणामित्थं