________________ दिवाकरकृता किरणावलीकलिता अष्टादशी द्वात्रिशिका / 43. waanwar. com बाह्याध्यात्मशुचिः सौम्यस्तेजस्वी करुणात्मकः / स्व-परान्वर्थविद् वाग्मी जिताध्यात्मश्च शासिता // 2 // बाह्याध्यात्मशुचिरिति / बाह्याध्यात्मशुचिः बाह्यं शरीरादितो बहिवस्त्रासन शयनानपानस्थानादिकं अध्यात्म शरीरेन्द्रियादिकं तयोः शुचिः शौचो यस्य स बाह्याध्यात्मशुचिः अथवा बाह्यं शरीरेन्द्रिवस्त्रोपकरणादिकं सर्वम्, अध्यात्म आत्म-मनस्तयोः शुचिः शोचो यस्य स तथेत्यर्थः, सौम्यः अक्रूरस्वभावः, तेजस्वी प्रतापशाली, करुणात्मकः जीवमात्रे दयावान्, स्वपरान्वर्थवित् स्व-पराभीष्टार्थज्ञानवान् , वाग्ग्मी सुमधुरव्यक्तवचनप्रगल्भः, जिताध्यात्मश्च जितं स्ववशे स्थापितं निगृहीतमिति यावत, अध्यात्म मनो यस्य स जिताध्यात्मः अथवा आत्मानमधिकृत्य यजायते काम-क्रोध-लोभ-मोहादिकं तदध्यात्मम् , जितं पराजितं निर्मूलमुन्मीलितं काम-क्रोधादिलक्षणमध्यात्म येन स तथा, चः समुच्चये एवंभूतः, शासिता शासकर्ता भवतीत्यर्थः // 2 // शासनं कीदृशमित्याकाङ्क्षायामाह-- तुल्यप्रकोपोपशमा रागाद्या मारुतादिवत् / विषयेन्द्रियसामान्यात् सर्वार्थमिति शासनम् // 3 // तुल्यप्रकोपोपशमेति / रागाद्याः राग-द्वेष-मोहाद्याः, तुल्यप्रकोपोपशमाः सर्वेषां प्राणिनां तुल्यौ समानौ प्रकोपोपशमी वृद्धथुपशान्ती येषां ते तुल्यप्रकोपोपशमाः, न ह्यस्ति संसारे कश्चित् प्राणी यस्य रागाद्या आन्तरशत्रवः तुल्यप्रकोपोपशमा न भवन्ति, तत्र निदर्शनमाह--मारुतादिवदिति यथा सर्वेषां प्राणिनां वायु-पित्त-श्लेष्माणः प्रकुपिता उपशमिताश्च भवन्ति तथा रागादयोऽपीत्यर्थः, तत्र किं कारणमित्याकाक्षायामाह--विषयेन्द्रियसामान्यादिति इष्टकामिनीकाञ्चन-पुत्रादिभिः सममिन्द्रियसम्बन्धे सति रागवृद्धिर्यथैकस्य संसारिणो भवति तथाऽपरस्यापि संसारिणः एवमनिष्टशनुसादिभिः सममिन्द्रियसम्बन्धे सति द्वेषवृद्धिर्यथैकस्य .संसारिणो भवति तथाऽन्यस्यापि, इष्टानिष्टभिन्नतयोपेक्षणीये विषये इन्द्रियसम्बन्धेऽपि न कस्यापि संसारिणो भवति राग-द्वेषवृद्धिः प्रत्युत यत्रैव विषये यस्यैवेन्द्रियस्य संसर्गे पूर्व राग-द्वेषादयो वृद्धिमुपगताः तस्मिन्नेव