________________ अष्टादशी द्वात्रिंशिका / लावण्येन विभावितागमलसत्स्याद्वादतत्त्वप्रथा / प्रारभारेण गुरूपदिष्टसुनयाक्षेपोत्तरज्ञानिना / भष्टादश्यतिसुन्दरार्थघटना द्वात्रिंशिका धीमतां / मोदायाप्तदिवाकरेण रचिता व्याख्यायते सूरिणा // शासनं देश-कालाद्यनुसारेण कृतं स्यादुपादेयं भवतीत्याशयेनाह-- देश-कालान्वयाचारवयःप्रकृतिमात्मनाम् / सत्त्वसंवेगविज्ञान विशेषाच्चानु शासनम् // 1 // देशेति / “देश-कालान्वयाचारवयःप्रकृतिमनु सत्त्व-संवेग-विज्ञानविशेषासंचात्मनां शासनं भवति" इत्यन्वयः / देश-कालान्वयाचार-वयःप्रकृतिम अनु अन्वित्यनेन देशादीनां प्रत्येक सम्बन्धः, तथा च यस्मिन् देशे आर्यावर्तादौ कृतं शासन धर्माद्युपेक्षात्मकशिक्षणं योग्यफलायालं तं देशमनु आश्रित्यास्मनां प्राणिनां शासनं युक्तं भवतीत्यर्थः, एवं यस्मिन् काले अतिशीतात्युष्णवातादिविरहिते क्रियमाणं शासनं ग्रहणयोग्यं तं कालमाश्रित्य प्राणिनां हितशासनं युक्तम् , एवं यस्मिन्नन्वये वंशे श्रद्धादिगुणवन्तः पुरुषाः कदाचिज्जैनदीक्षादिपरिपालनमतिकष्टतममप्यकुर्वन् कुर्वन्ति तमन्वयमाश्रित्य प्राणिनां शासन विधेयम् , एवं तपः-स्वाध्यायाध्ययनाध्यापनादिसदाचारमाश्रित्य प्राणिनां शासनं कर्तव्यम्, वयः बालयुवावस्थायां यच्छासनं योग्यं तामवस्थामाश्रित्य तच्छासनं कर्तव्यपद्धतिमञ्चति, प्रकृतिमनुप्रकृतिः स्वभावः कश्चिद्वामप्रकृतिः कश्चिद्दक्षिणप्रकृतिः कश्चित् क्रूरप्रकृतिः कश्चित् सरलप्रकृतिरित्येवं स्वभावमेदे यस्य स्वभावस्य याचितं तच्छासनमुपदेष्टव्यमित्यर्थः, च पुनः, सत्त्व-संवेगविज्ञानविशेषात् सत्त्वानां प्राणिनां य: संवेगः तस्य यो विज्ञानविशेषः अनेन कारणेनास्य प्राणिनः ईशः संवेगः अस्य पुनः एतस्मात् कारणाद् विलक्षणः संवेग इत्येवं सम्यगवधारणात्मकं ज्ञानं तस्मादात्मनां शासनं भवतीत्यर्थः // 1 // सम्यगुपदेष्टा कः स्याद् यत्कर्तृकं शासनमुपादेयमित्याकाक्षायामाह