________________ दिवाकरकृतो किरणावलीकलिता सप्तदशी द्वात्रिशिका / विषयेन्द्रियबुद्धीनां मनसा सम्बन्धः, क्रमः क्रमेण भवनात् क्रम इत्युच्यते, प्रथमं बुद्धि-मनसोः सम्बन्धः ततः इन्द्रिय-मनसोः सम्बन्धः ततो विषय-मनसोः सम्बन्ध इत्येवं क्रमः, तत किं भवतीत्याकाङ्क्षायामाह-तमोमूलेति / हि यतः, तमोमूलाभिघातात् क्रोध-जिह्मादिदोषाणां तमोमूलस्य अज्ञानलक्षणतमःस्वरूपादिकारणस्याभितः सर्वतो घाताद् विनाशात्, शिव परमानन्दलक्षणं कल्याणं निर्वाणादिशब्दाभिधेयं, भवतीति शेषः, कीदृशं तदित्याकाङ्क्षायामाह-निर्विकल्पशिवमिति विविधः कल्प उत्तमाधमभावादिलक्षणो विकल्पः निर्गतो विकल्पो यस्मात् तन्निविकल्पं सर्वोत्कृष्ट यच्छिवं कल्याणं तदात्मकं निविकल्पशिवमित्यर्थः // 32 // इयं सप्तदशी गूढा स्याद्वादपरिकर्मिता / द्वात्रिंशिकाऽस्तु मोदाय लावण्यपरिभाविता // इति श्रीसप्तदश्या द्वात्रिशिकाया व्याख्या समाप्ता //