________________ 434 दिवाकरकृता किरणावलीकलिता सप्तदशी द्वात्रिंशिका / ~ ~ ~ ~~ ~~ ~ ~ ~ ~ ~~ ~ ~ ~ कर्माश्रवविपाकार्थ वर्ण्यन्ते जीवजातयः / .. तुल्यं ह्यधिगतार्थस्य जीवाजीवप्रयोजनम् // 29 // कर्मेति / कर्माश्रविपाका) कायिकादिकर्मलक्षणाश्रवस्य यो विपाकस्तदर्थम्, कस्मिन् कस्य विपाक इत्यवगतये इति यावत्, जोवजातयः जीवप्रमेदाः, वर्ण्यन्ते आगमे निरूप्यन्ते, हि यतः, अधिगतार्थस्य ज्ञातार्थस्य प्रमातुः, जीवाजीवप्रयोजनं तुल्यं समम् // 29 // . निदानाभ्याससाफल्यं जन्मान्तरगतस्य चेत् / ज्ञानेश्वर्यमुखाभ्यासे निदानेभ्यस्तपाश्रमः // 30 // निदानेति / चेत् यदि, जन्मान्तरगतस्य अन्यजन्मगतस्य, निदाना. भ्याससाफल्यं स्यात् अस्मिन् जन्मनि निदानाभ्यासः कृतः तत्फलं जन्मान्तरे भविष्यति इति यदि, तदा निदानेभ्यः ज्ञानेश्वर्यसुखाभ्यासे सति, तपःश्रमः श्रममात्रं निष्प्रयोजनमित्यर्थः // 30 // न धर्मार्थों विशिष्येते काऽपायोपभोगतः / धर्मस्तु ज्ञानहेतुत्वाद् विशिष्टेषु विशिष्यते // 31 // न धर्मार्थाविति / अपायोपभोगतः अपायो विनाशः उपभोगस्तत्फललाभः ताभ्याम्, क; जीवेन प्रमात्रा, धर्मार्थो न विशेष्येते, यतः धर्मस्यार्थस्य चाविनाशो भवति उपभोगश्च भवति, किन्तु धर्मस्तु धर्मः पुनः, शानहेतुत्वाद-ज्ञानकारणत्वात् , विशिष्टेषु धर्माद्याचरणवरसु पुरुषेषु, विशिष्यते अर्थतो विशिष्टो भवति // 31 // इत्थमन्ते कल्याणमुपजायते इत्युपसंहरतिविषयेन्द्रिय-बुद्धीनां मनश्वोपक्रमः क्रमः / तमोमूलाभिघाताद्धि निर्विकल्पशिवं शिवम् // 32 // विषयेन्द्रियबुद्धीनामिति / "मनश्चोपक्रमः'' इत्यस्य स्थाने 'मनसोपक्रमः" इति पाठो युक्तः / उपक्रम्यते आरभ्यत इत्युपक्रमः आरम्भः प्रकृत सम्बन्धः