________________ दिवाकरकृता किरणावलोकलिता सप्तदशी द्वात्रिंशिका / 433 पुण्यमेवेति / श्वादयोऽपि कुक्कुरप्रभृतयोऽपि प्राणिनः, अविशेषतः मनुष्यादितो विशेषाभावतः पुण्यमेव पुण्यकर्मैव, स्वस्वसुतादिपरिपालनक्रियादिभिः निबध्नन्ति, तु पुनः आहारादिषु भक्ष्याभक्ष्य-पेयाऽपेयादिषु, तद्वत्ते: श्वाद्याचारतः अभिज्ञः इदं भक्ष्यमिदमभक्ष्यमिदं पेयमिदमपेयमित्यादिविवेकज्ञानवान् पुरुषः, विशिष्यते इवादितो विशिष्टो भवतीत्यर्थः // 25 / / प्रतिमाभिग्रहास्तीत्राः परिज्ञानविरोधिनः / प्रपञ्चाचारवादस्तु मिथ्यामानादिवृत्तयः // 26 // प्रतिमेति / तीवाः प्रतिमाभिग्रहाः परिज्ञानविरोधिनो भवन्ति, तु पुनः, मिथ्यामानादिवृत्तयः प्रपञ्चाचारवाद इति // 26 // चारित्रसहितमेव ज्ञानं फलदं, न केवलमित्याहयथा गदपरिज्ञानं नालमामयशान्तये / अचारित्रं तथा ज्ञानं न बुद्धयध्यवसायतः // 27 // यथेति। गदपरिज्ञानमामयशान्तये यथा नालं न समर्थम्, तथा अचारित्रं चारित्रहितं, ज्ञान “बुद्धयध्यवसायतः" इत्यस्य स्थाने "बुद्धयवसायमात्रेण" इति पाठः सम्भवेत् बुद्वयध्यवसायमात्रेण फलायालम् , न भवति // 27 // अरण्युष्माग्निविज्ञानं वैराग्यमुपजायते / - तदभ्यासफलो योगो न पापाय न संवरः // 28 // अरण्युष्मेति / अरण्युष्माग्निविज्ञानम् अरणिः शुष्ककाष्ठविशेषतः यन्निर्मन्थनतोऽग्निरुत्पद्यते अरणात्रुष्माग्निविज्ञानं न शीतापनोदाय प्रभवति, एतादृशं वैराग्यमुपजायते, तभ्यासफलः तादृशवैराग्याभ्यासः फलं यस्य स तदभ्यासफलः, योगः कायिक-वाचिक-मानसकर्मलक्षणः, न पापाय पापार्थ न, पापकारणं न भवति, संवरः आश्रवनिरोधलक्षणः संवरोऽपि न भवति ज्ञानविकलत्वात् , तथा च चारित्रविकलं ज्ञानं यथा न फलायालं तथा ज्ञानविकलं कमलक्षणचरित्रमपि न फलायालमित्यर्थः // 28 // 28