________________ 132 दिवाकरकृता किरणापलीकलितादशी द्वात्रिंशिका / न करोति, अथापि तस्य दुःखाभाव इत्येवं व्यतिरेकव्यभिचारः, अहो आश्चर्यम् , मोहविभूतयः अज्ञानविजृम्भगानीत्यर्थः // 22 // . अन्या अपि मोहविभूती रूपं दर्शयतिपुण्यं सुखात्मकं जन्म तद्विशेषो विशिष्यते / कृतार्थेनापि चोपेयमवश्यं नातिहेतवः // 23 // पुण्यमिति / सुखात्मकं सुखैकफलभाजनतया सुखस्वरूपम् , जन्म धनादिसमृद्धनृपादिगृहे उत्पत्तिः, तद्विशेषः सुखात्मकजन्मविशेषः, विशिष्यते अन्य जन्मनः सकाशाद् विशिष्टो भवति, यतो विशि यते तस्मात् कारणात्, कृतार्थनापि कृतकृत्येनापि पुरुषोत्तमेन, च पुनः, उपेयं 'स्वीकरणीयम्, तत्र हेतुः अवश्य निश्चितम्, नातिहेतवः पीडाहेतवः न भवन्ति, जन्मवतः पीडा भवत्येवेति नियमाभावाद् विशिष्टतरं जन्म न पीडाजनकमिति कृतार्थोऽपि जन्म गृह्णीयादित्यपि मोहविलसितमित्यर्थः / / 23 // अन्यदपि मोहविजम्भितमुपदर्शयतिप्रीत्यर्था विषया जातिः सात्मकं कल्पशोभना / तेषामर्थवशात् साम्यमिति धर्मोऽप्यधर्मवत् // 24 // प्रीत्यर्थेति / विषयाः कामिनी-काञ्चनादयः, प्रीत्यर्थाः प्रीतिप्रयोजनकाः प्रीतिजनका इति यावत्, जातिः ब्राह्मणत्वादिः, सात्मकं सात्मकं यथा स्यात् तथा कल्पपशोभना स्वस्वाचारमनोहरा, इति जातिविशेषणम्, तेषां विषयादीनाम् , अर्थवशात् प्रयोजनवशात् , साम्यं तुल्यत्वम् , यदा यस्य विषयस्य प्रयोजनमपेक्षितं तदा स विषय आदरणीयो भवति अन्यस्तु प्रीत्यर्थोऽपि तदानीमुपेक्षितो भवति यया जात्या यत् कार्यमावश्यकं सम्पादनीय तदानीं सैव जातिरत्याहता भवति, अन्या जाति: सदाचारशोभनाऽपि न पुरस्कृता भवति, इति एतस्मात् कारणात्, धर्मोऽपि पुण्यमपि, अधर्मवत् अपुण्यमिव प्रयोजनवशादनादरणीयं भवतीत्यर्थः // 24 // अनभिज्ञतोऽभिज्ञस्य वैशिष्टयं प्रतिपादयतिपुण्यमेव निबध्नन्ति वादयोऽप्यविशेषतः / .. आहारादिषु तद्वत्तरभिज्ञस्तु विशिष्यते // 25 //