________________ दिवाकरकृतो किरणावलीकलिता सप्तदशी द्वात्रिविका / 431 षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविंशतिः' इति गौतमसूत्रे सुखस्यापि वैषयिकस्यैकविशतिदुःखान्तर्गतत्वेन दुःख त्वमेव, यत् यस्मात् सुखं पारमाथिकानन्द लक्षणं दुःखे दुःखमध्ये न, अतस्तत्प्रतीकाराभावेऽपि न नः किञ्चिदपचीयते, यत् तु वैषयिकं सुखं तद्दुःख एवान्तभूतमिति दुःख प्रतीकारे तस्यापि प्रतीकार इति गूढाभिसन्धिः अथवा दुःखे इति सप्तम्यन्तं निषेधार्थको नकार इतिकृत्वा दुःखे न इति च्छेदो नाभिप्रेतः कितु दुःखेनेति तृतीया-तमेव, सुख मित्यनन्तरं भवतीति शेषः तथा च दुःख निवृत्तिरेव वैषयिकं सुखं, क्षुत्पीडितो भक्कादिभोजनेन क्षुत्प्रभवदुःख निवृत्ति लक्षणमेव सुखमासादयति प्रतियोगितासम्बन्धेन ध्वंसलक्षनिवृत्ति प्रति च तादात्म्यसम्बन्धेन प्रतियोगिनः कारणत्वमिति, यत् यस्मात् दुःखेन दुःखात्मकप्रतियोगिना सुखं दुःख निवृत्तिलक्षणं सुखं भवतीति माध्यस्थ्ये सति द्वेषाद्यभावाद् दुःखानुत्पादे दुःख निवृत्तिलक्षणसुखस्यानुत्पादोऽयत्नोपनत इति भवति माध्यस्थ्यं तत्प्रतोकार इत्यर्थ // 21 // यदा च माध्यस्थ्यमेव दुःखाटिप्रतीकारस्तदा कारणान्तरमुपादाय लोकव्यवहारोऽस्मिन् विषये मोहविजृम्भित एवेत्याशयेनाह न दुःखकारणं कर्म तदभावाय वोद्यमः / दृश्यते व्यभिचारश्चाप्यहो मोहविभूतयः // 22 // न दुःस्वकारणमिति / स्याद्वादावलम्बनतैव सर्वं मुस्थं नान्यथेत्यवगतिपाटवार्थमित्यमुपक्रम एकान्तमाध्यस्थ्यावलम्बनस्यायुक्तत्वप्रतिपत्तये, कर्म दुःखकारणं न तदभावाय दुःखाभावार्थम् , उद्यमः प्रयत्नः पुरुषकार नेति सम्बध्यते, यत व्यभिचारश्चापि दृश्यते कश्चिद् दुष्टप्रकृतिः पुमान् ब्रह्महत्यादिकर्म करोति दुःखभागी च न भवतीति धर्मसत्त्वेऽपि दुःस्वाभाव इत्येवमन्वयव्यभिचारो दृश्यते, एवं दुःख मा भवविति प्रतिसन्धाय दुःखाभावार्थ कश्चित् प्रयत्नं करोति, अथापि तस्य दुःखं भवतीति प्रयत्न रूपकारणसत्त्वेऽपि दुःखाभावरूपकार्याभाव इत्येवमन्वयव्यभिचारो दृश्यते तथा शुद्धाशय कश्चित् ब्रह्महत्यादिकर्म न करोति, अथापि तस्य दुःखं भवतीति व्यतिरेकव्यभिचारो दृश्यते एवं कश्चिद् दुःखाभावार्थमुद्यम