________________ 430 दिवाकरकृता किरणापलीकलिता सप्तदशी द्वात्रिंशिका / . अहमहङ्कारास्पदं, नास्मि न भवामीत्याकार काभावस्वरूपः प्रपञ्चोपरमः, वा अथवा, भावः अखण्डानन्दस्वरूपेण केवलोपयोगात्मना वाऽवस्थानम् , अभ्युप. गम्यते पूर्वसूरिभिः स्वं क्रियते, अयमेव प्रपञ्चोपरमः शान्तिः , तत्र हेतुः अव्युच्छित्तेः विशेषेणो-िछत्तिरभावो व्युच्छित्तिर्न व्युच्छित्तिरव्युच्छित्तिः तस्मादत्य तोच्छेदाभावात सर्वदा स्वस्वरूपावस्थानस्यैव भावात्, अत एव च अशून्यता शून्यत्वाभावः, एतेन शून्यतैव परमं निर्वाणमिति सर्वशयितावादिनो मा यमिकस्य मतमपहस्तितं भवतीति // 20 // इत्थभुपेक्षालक्षणमाध्यस्थ्यं परमानन्द-केवलोपयोगस्वरूपपरमनिर्वाणसंसिद्धि. फलकत्वेनोपदेयमित्युत्पाद्यापि भूयस्त हाटायोपदिशति- , द्वेषोद्वेगफलं दुःखं सङ्गस्वादुफलं सुखम् / माध्यस्थ्यं तत्प्रतीकारः किन्तु दुःखेन यत् सुखम् // 21 // द्वषोद्वेगफलमिति / द्वेषोद्वेगफलं द्वेषः क्रोधः उद्वेगः इदमिदानीमपि न निष्पन्नं सम्पत्स्यते वा नवेत्यादिचिन्ताप्रभवो मानसः सन्तापः, तयोः फलं कार्य द्वेषोद्वेगफलम् , दुःख प्रसिद्धम् , संगस्वादुफलम् पुत्र-मित्र-कलत्राद्यभिष्वङ्गः तस्य स्वादुफलं मास्वादनजन्यम् सुखं वैर्षायकसुखमनित्यं परिणामविरसम् , माध्यस्थ्यम् मध्यस्थमावः न मे कश्चिदनिष्टं करोतीति, न कश्चिन्मम शत्रुरिति नास्ति कुत्रापि मे द्वेषः, नाकाले किञ्चिद् भवति यदा यस्य कालस्तदा स भविष्यत्येवालमुद्गेनेति कारणामावन्नि दुःखं, रागप्रभवः सङ्गो अरक्ते मयि कुतः तदा स्वादनाभावात् तल्लक्षणं वैषयिकसुखमपि नास्तीति भावनातस्तदुपे. क्षणं माध्यस्थ्यम् , तदेव तत्वतोकार: सुख दुःख निवृत्तिाधनम्, ननु माध्यस्थ्ये सत्यपि दुःखकारणाद् दुःखं सुख कारणात् सुख स्यादेवेति कथं माध्यस्थ्यं तत्प्रतीकार इत्याशयेन पृच्छति-किन्त्विति, माध्यस्थ्यमवतिष्ठमानस्याहङ्कारममताविमुक्तस्य क्रोधादिकं दुःखकारणं नास्तीति कारणाभावादेव न दुःखं, सुखं तु वैषयिक दुःखमेवेति दुःखामावे तस्याप्यभावः, पारमार्थिकं तु यदात्मस्वरूपं परमानन्दलक्षणं सुखं तदिष्टतमत्वान्न परिहरणीयमात्मस्वरूपत्वादेव च परिहतुमशक्यमिति न तत्प्रतिकारो माध्यस्थ्यमित्याशयेनोत्तरयति-दुःखेन यत् सुखमिति, 'शरीर