________________ दिवाकरकृता किरणाक्लीकलिता सप्तदली द्वात्रिशिका मा 429 त्रिविधो व्यापारः, प्रवर्तनं निवर्तनं च तापकारणं ततस्ताभ्यां तपत एवेति तापरहितस्य तु पुरुषस्य मनसो व्यापार उपेक्षवेत्याशयेनाह-किमेवमिति किमेवं यथा प्रतिभासते तथा किम् , किमोऽग्रे सर्वत्रान्वयः, तथा च कि बहुः बहुप्रकारोऽयम् किम्, वा अथवा, अल्पं न्यूनं किम् , कि वा शरीर एवेदम्, वा अथवा, बहिरेव शरीराद् बाह्यभूतमित्येवं विचारप्रवृत्तमनसैव अतिवर्तते उपेक्षावान् भवतीत्युपेक्षावान् पुरुषो न क्वचित् रक्को द्विष्टो वा भवतीत्यर्थः // 18 // एवमुपेक्षावतः पुरुषस्य क्वचिदपि ममत्वं नास्ति तद्धत्वाहङ्कारोऽपि नास्ति तदभावान्न पुनर्ममता नवा सङ्कल्पादिरित्यशिवाभावात् कल्याणमुपतिष्ठते इत्याह न ममत्वादहङ्कारस्तस्मात् तु ममता मता / संकल्पाव्यभिचारित्वात् तस्मिन्नेवाशिवास्पदम् // 19 // न ममत्वादिति / न ममत्वाद् मम जातिरुत्तमा मम कुलमत्युनतमित्यादि ममभावादहङ्कारो नोपेक्षादृष्टिमतः ममत्वस्यैवाभावात्, पूर्वमहङ्कारस्याभावे ममतैव न सम्भवति, यतः तस्मात् तु अहङ्कारात् पुनः, ममता मता अभ्युपगता, ममेदं भवतु मम शत्रुर्मियतां ममायुषः क्षयो मा जायतामित्यादिमनोवृत्तिरूपः संकल्पो ममत्वादिव्यापकस्तस्याभावे उपेक्षकस्य सुतरां व्याप्यीभूताहङ्कारायभाव इत्याह-संकल्पाव्यभिचारित्वादिति सङ्कल्पव्याप्यत्वादित्वर्थः यदा चोपेक्षकस्य सङ्कल्प एव नास्ति तदा तस्य सर्वथा कल्याणभेव, अकल्याणस्य सम्भावनैव नास्तीत्याह-तस्मिन्नेवेति मनसः सङ्कल्प एवेत्यर्थः, अशिवास्पदम् अशिवस्याकल्याणस्यास्पदं स्थानमित्यर्थः // 19 // . ननु सर्वथा कल्याणप्राप्तौ संसाराभावो भवतीति सुप्रसिद्धमतः स क इति पृच्छायामाह नाहमस्मीत्यभावो वा भावो वाऽभ्युपगम्यते / प्रपञ्चोपरमः शान्तिरव्युच्छित्तेरशून्यता // 20 // नाहमस्मीत्यभाधो वेति / प्रपञ्चोपरमः प्रपञ्चस्य संसारस्योपरमोऽभावः वेति विकल्पो नास्त्यत्राग्रह इति द्योतनाय, नाहभस्मीत्यभावः