________________ 128 दिवाकरकृता किरणावलीकलिता सप्तदशी द्वात्रिविका / कर्मापरस्यापि कर्तुः तत्सुखसदृशमेव तद्दुःखसदृशमेव वा दुःखं जनयतीति सदृशफलम्, अथ च यादृशं कर्मकस्य कतुः याशं सुखं दुःखं वा जनयति तादृशमेव कर्मपरम्य कर्तुः तत् सुखविसहशं तदपेक्षयाऽपकृष्टमुत्कृष्टं वा सुखं दुःखमेव वा अनयति एवं तद्दुःखविसदृशं तदपेक्षयाऽपकृष्टमुत्कृष्टं वा दुःखं सुखमेव वा जनयतीति विसशफलम् , ईदृशं कथं भवतीत्याकाङ्क्षायामाह-निमित्ताश्रवयोगतः इति निमित्तकारणीभूताश्रवस्वरूपकायिक-वाचिक-मानसकर्मलक्षणयोगादित्यर्थः, यतः इति पूर्वान्वयि यस्मानिमित्ताश्रवयोगात् फर्म तुल्यातुल्यफलं भवतीति शेषः, स काय'वाङ्-मनःकर्मात्मकयोगलक्षण आश्रवः, हेतुः तुल्यातुल्यफलकर्मणः कारणम् , अन्वेष्यः जैनागमाम्बुध्यन्तर्गतः स जैनागमनिरन्तराभ्यसनविधिना तत्रैव गवेषणीयः, तद्वेषणतो निरुताश्रवेऽवगते किं भविष्यतीत्याकाङ्क्षायामाह-दृष्टार्थो हीति हि यतः, दृष्टार्थः एतस्मादाश्रवाद् बद्धस्य कर्मण ईदृशं फलं भवतीत्येवं दृष्टः शास्त्रतः सिम्यगवलोकितोऽर्थो येन स दृष्टार्थः प्रमाता, न तप्यते यादृक्कमणोऽन्यस्य सुखं तादृशादेव कर्मणः स्वस्य दुःखं भुञ्जमामोऽपि पीडितो नं भवतीत्यर्थः // 17 // अपगततापः किमवस्थो भवति प्रमातेत्याकाङ्क्षायामाहमनसोऽपैति विषयान् मनसैवातिवर्तते / किमेवं बहुरल्पं वा शरीरे बहिरेव वा // 18 // मनसोऽपैतीति / 'विषयान्' इत्यस्य स्थाने 'विषयात्' इति पाठो युक्तः / मनसः विषयाद् मनःकल्पितपदार्थात्, अपैति दूरीभवति, मनःकल्पितमेवैतत् कर्म तेन मम कृत्यं सर्वथा परिहरणीयमेवेति भावयन् न मानसिकसङ्कल्पतः परिभूतो भवतीत्यर्थः, तत् किं मनोव्यापारमेव किमपि न करोतीत्यत आहमनसैवेति स्ववशीभूरामनसैवेत्यर्थः, अतिवर्तते अतिक्रम्य वर्तते, ननु प्रवृत्ति-निवृत्तिविषयमतिक्रम्य वर्तनमेव यद्यतिवर्त्तनं तर्हि तदुभयथा स्यात् प्रवृत्तिविषयेन प्रवर्तेत निवृत्तिविषयेन निवर्तेत, निवृत्तिविषये प्रवर्तेत प्रवृत्तिविषये च निवर्तेत, स्वयं सति नायं लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षितव्यः स्यादिति खेल भतिधर्तनस्यात्रोपेक्षपारूपत्वाद् मनसः खलु प्रवर्तनं निवर्तममुपेक्षणं चेति