________________ दिवाकरकृता किरणावलीकलिता सप्तदशी द्वात्रिशिका / 124 तामेकस्योपचयोऽपरस्य निवृत्तिं करोति तथाऽशुद्धतापादकत्वेन वस्तुगत्या दोषभूतरेव संयमादिभिर्दोषाणां क्रोधादीनां निवृत्तिर्भवति यथा च वातादयोऽन्यनिवृत्ति विधाय स्वयं निवर्तते तथा संयमादयोऽपि, शुद्धश्चात्माऽन्तेऽवतिष्ठते इत्यर्थः // 15 // दोषेभ्यः प्रव्रजन्त्यार्या गृहादिभ्यः पृथगजनाः / परानुग्रहनिम्नास्तु सन्तस्तदनुवृत्तयः // 16 / / दोषेभ्य इति / आर्याः संसृत् िपयोनिधिपारं गन्तुकामाः पुरुषोत्तमाः, दोषेभ्यः क्रोध-जिह्म-परिष्वा-मानादिभ्यः, प्रव्रजन्ति पृथग् भवन्ति, जैनी प्रवज्यां गृह्णन्ति, पृथग्जना आभिन्ना नराः, गृहादिभ्यः गृह-बान्धवदारादिभ्यः प्रव्रजन्तीति सम्बध्यते गृहादीन् परित्यज्य तीर्थयात्रादिकं कुर्वन्ति, तुविशिनष्टि, सन्तः साधुसेवादिपरायणा नराः कथंभूतास्ते इत्याकाक्षायामाहपरानुग्रनिमा इति परानुग्रहैकनिरता इत्यर्थः, तदनुवृत्तयः परो यत्र यत्र स्वसमीहिते वर्त्तते तत्र सर्वत्र साहाय्यमनुतिष्ठन्तीत्यर्थः // 16 // कर्मणो वैचित्र्यात् तत्कर्तुः फलोग्भोगवैचित्र्यं भवति, कर्मणस्तु निमित्तमाश्रवः, स च योगस्वरूपः, योगस्तु काय-वाङ्-मनःकर्म अर्थात् कायिक कर्म वाचिकं कर्म, मानसं कर्म, उत्त कर्मत्रैविध्याद् योगलक्षण आश्रवोऽपि त्रिविधः, तथा च कायात्मप्रदेशपरीणामो गमनादिक्रियाहेतुः काययोगलक्षण आश्रवः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगलक्षण आश्रवः मनोयोग्यपुद्गलात्मप्रदेशपरीणामो मनोयोगलक्षण आश्रवः, स त्रिविधोऽप्याश्रवः शुभोऽशुभ चेत्येवं द्विविधः, तत्र हिंसास्तेयाब्रह्मादीनि अशुभः कायिक आश्रवः सावद्यानृतपरुषपिशुनादीनि वाचिक आश्रवोऽशुभः अभिध्या व्यापादेासूयादीनि मानस आश्रवोऽशुभः अतो विपरीतः आश्रयः शुभ इति तद्पनिमित्तवैचित्र्यात् कर्मवैचित्र्यं भवतीत्येतदुपदर्शयतितुल्यातुल्यफलं कर्म निमित्ताश्रवयोगतः / यतः स हेतुरन्वेष्यो दृष्टार्थों हि न तप्यते // 17 // तुल्यातुल्यफलमिति / कर्म अदृष्टं पुण्यं पापं च, तुल्यातुल्यफलं सदृशफलं विसदृशफलं यादृशं कर्मकस्य कर्तः सुखं दुःखं वा जनयति तादृशमेव