________________ 426. दिवाकरकृत किरणावलीकलिता सप्तदशी द्वात्रिशिता / एकमूतिरिति / क्रोध-जिह्मेति पद्याभ्याम् , पुरुषाशयशक्तितः पुरुषाभिप्रायसामर्थ्यात्, गुणप्रत्येकवृत्तानां गुणानां प्रत्येकं ये परीणामास्तेषां सर्वेषाम् , एकमूर्तिः एकस्वरूपः, परीणामः क्रोधादिलक्षणः अनन्तरमेवाभिधीयमानः, आचारलक्षणम् भाचारात्मकम् , शुद्धिः // 13 // परिणामस्वरूपकीर्तनम्क्रोध-जिह्म-परिष्वङ्ग-मान-वेदाम्बुमक्षयाः / युगपद् वा तमो विद्याद् यावद् यत्रानुषिध्यते // 14 // क्रोधेति / क्रोध-जिम-परिष्वा-मान-वेदाम्बुमक्षयाः क्रोधः द्वेषः प्रसिद्धः, जिह्म कौटिल्यम् , परिष्वशः परस्परालिानलक्षणः, मानः प्रसिद्धः, वेदः पुंवेद-स्त्रीवेद-नपुंसकवेदाः वेदाम्बुमक्षयाः इत्यस्यार्थश्चिन्त्यः, यद्यत्र 'वेदादिकान् क्रमाद्' इतिपाठः तदा युगपद् वेत्युत्तरेण सङ्गतिरर्थोऽपि सुसजतः यथा श्रुतपाठे 'युगपद्वातमो' इत्यस्य स्थाने 'युगपद् वा क्रमात्' इति पाठो ज्ञेयः / विद्याद् जानीयात् , 'यावद् यत्रानुषिध्यते' इत्यस्य स्थाने यावयत्रानुविध्यते' इति पाठो युक्तः / यावद् यत्रानुविध्यते क्रोधादिपरीणामानां मध्ये यावतो यत्राजुवेधः सम्बन्धः तावतो युगपत् क्रमतो वाऽपि विद्यात् इत्यर्थः // 14 // क्रोधादिपरीणामा अवश्यं परित्याज्याः न च विनाशमन्तरेण परित्यागः सम्भवति तेषामतो विनाशस्तेषां परीणामानामवश्यं त्यागः स कथमित्याकाङ्क्षायामाह क्षयो नाप्रशमस्यास्ति संयमस्तदुपक्रमः / दोषेरेव तु दोषाणां निवृत्तिारुतादिवत् // 15 // क्षयो नाप्रशमस्यास्तीति / अप्रशमस्य प्रशमरहितस्य पुंसः, क्षया प्रक्रान्तत्वात् क्रोधादीनां क्षय इति गम्यते, नास्ति न भवति, अतः प्रशमः क्रोधादिक्षयकारणतयोपादेयः स कथमत आह-संयम इति तदुपक्रमः प्रशमस्यारम्भः, ननु शुद्धस्यात्मनः संयमोऽपि परीणामरूपतया विकारोऽशुद्धतापादकत्वेन हेय एवेत्यत माह-दोषैरेव स्विति, मारुतादिवर बवा कफ-पित्त-मर