________________ दिवाकरता किरणाक्लीकलिता सप्तदशी द्वात्रिशिका / 425 हेतुत्वादिति जन्म-मरणापदां यानिमित्तान्तरं कारणान्तरं तत्तदुष्टाध्यवसायप्रभवादृष्टं तद्धेतुवात् तत्कारणत्वा, गुणतः उक्तकारिणत्वलक्षणगुणभावतः, उपचर्यते कषाय यो जन्म-मरणापेदा भवन्तीत्येवमुपचर्यते मुख्यवृत्त्या तु तत्तददृष्टविशेषत एव जन्म-मरणापदो भवन्तीत्यर्थः // 11 // यतो निमित्तान्तरत एव जान-मरणापदो भवन्ति, अतोऽन्योपदेशः परीक्षणमेवेत्याह कल्पाकल्पमतो द्रव्यमचिन्त्यं सपिरादिवत् / दोषप्रचयवैषम्यादातुरस्तु परीक्ष्यते // 12 // : कल्पाकल्पमिति / अतः अनन्तरयुक्तितः, कल्पानामकल्पानां समाहारः, कल्पाकल्पम् आचारानाचारलक्षणम् , द्रव्यं कारणम् , अचिन्त्यं शास्त्रोपदेशमन्तरेण चिन्तयितुमशक्यम् अयं परिशुद्ध भाचारः शुभपरिणामहेतुरयं पुनः अपरिशुद्ध आचारोऽशुभपरिणामनिदानमिति शास्त्रैकगम्यमित्याशयः, तदचिन्त्यत्वे निदर्शनमाह-सपिरादिवदिति घृतादिवदित्यर्थः, यथा-'आयुर्वे घृतम्' इति धातुपुष्टिनिमित्तत्वादायुर्हेतुत्वमारोष्य घृतमायुरित्युपचरितं, किन्तु विज्वरस्य पुनस्तद्धातुपुष्टिनिमित्तं ज्वरग्रस्तस्य तु तदहितमिति विज्वरेण तदादेयं ज्वरप्रस्तेन च तदनादेयमिति शास्त्रमन्तरेण ज्ञातुमशक्यत्वादचिन्त्यिं तथेत्यर्थः / सर्पिरादिः कस्यचिद्धितं कस्यचिदहितमित्येव कुत इत्याकाङ्क्षायामाह-दोषप्रचयपवैषम्यादिति दोषाणां वात-पित्त- लष्मणां प्रकर्षण चयो वृद्धिः प्रचयः वैपाय कस्यचिद्भासः कस्यचिद्वद्धिस्तस्मादोषप्रचयवैषम्याद् घृतादीनां केनचित् पुरुषेणादानं केनचित् पुरुषेण परित्यागः, तु पुनः, एतदवगतये मस्मिन् पुरुषे कस्य दोषस्योपचयः कस्य चापचय इत्यस्य सम्यगवगमाभावः, आतुरः रोगामिभूतः पुरुषः, परीक्ष्यते भिषग्वरः परीक्ष्यते इत्यर्थः // 12 // परीक्षण प्रकारमेवोपदर्शयति एकमूर्तिः परीणामः शुद्धिराचारलक्षणम् / गुणप्रत्येकवृत्तानां पुरुषाशयशक्तितः // 13 //