________________ Tax दिवाकरता किरम्गावलीकलिता सादशी द्वात्रिंक्षिका / फामः कृताभ्युपगम एव कृतान युपगमः कृतानभ्युपगम एवेति परस्परम्, नानुषतते, तौ कथम्भूतौ तुल्यदोष-गुणस्थानौ समानदोष गुणस्थानौ, अंतः अस्मात् कारणात् , कषायक्रमोऽपि नेत्यर्थः // 9 // स्वगतं कषायादिक्रमेण युगपद्वति ज्ञातुं शक्यते परगतं कषायादि कर्य परेण ज्ञातुं शक्यम् ? युगपत् क्रमेण वाऽस्य कषायादीति, किमर्थं च तस्योपदेशः शास्त्रे इत्याकाक्षायामाह कषायचिह्न हिंसादि प्रतिषेधस्तदाश्रयः / अपायोद्वेजनो बालो भीरुणामुपदिश्यते // 10 // . : कषायचिह्नमिति / कषायचिह-काम-क्रोधादिज्ञापकम्, हिंसादि हिंसास्तेय-मैथुन-परिग्रहाद तादानादि, तदाश्रयः तदधीनः, प्रतिषेधः हिंसादिप्रतिषेधः अहिंसादिः, भीरूणां काम-क्रोधाद्याकलितजनेभ्यो भीतानां, अपायोद्वेजनः काम-क्रोधादिविनाशङ्काकारी, बालः अनेनायं क्रुद्धो भविष्यति अयमिदं कामयति भयं चास्मिन् विषये लुब्धः इत्यादिपरिज्ञानशून्यः, उपदिश्यते शास्त्रेण तत्त्वमावेयते इत्यर्थः // 10 // . शास्त्र कीगुपदेशः येन भीरूणामपायो।जनो बालो न भवेदित्याकाक्षायं तदुपदेशमेवोपदर्शयति -- हिंसादिवत् कषायेभ्यो न जन्म-मरणापदः / निमित्तान्तरहेतुत्वाद् गुणतस्तूपचर्यते // 11 // हिंसादिवदिति / हिंसादिवत् यथा हिंसादिभ्यः, जन्म-मरणापदः न भवन्ति तथा, कषायेभ्यः काम-क्रोधादिभ्यः, जनममरणापदः नरामरायत्तरभवप्रतिलम्भो जन्म, पूर्वशरीरादिसम्बन्धविनाशो मरणम्, आधिभौतिकाधिदैविकाध्यात्मिकदुःखत्रयप्राप्तिरापत् ते जन्म-मरणापदः, न भवन्ति, अतो बालजनदुश्चेष्टितक्रियाकलापादितोऽपायोगो न विधेयः, यदि कषायेभ्यो न जन्म-मरणापदस्तहि सन्म-मरणापदेतुत्वेन कषायाणां लोके व्यवहारः कथमित्यत माह-निमित्तान्तर