________________ दिवाकरकृता किरणावलीकलिता सप्तदशी द्वात्रिशिका / 121 क्षयवृद्धिरिति / 'मिथ्यादृयाष्टिः' इत्यस्य स्थाने 'मिथ्यादृष्टेः' इति पाठो युक्तः / मिथ्यादृष्टेः मिथ्यादर्शनवतः पुंसः, कषायाणां कामादीनाम् , असंक्रमात् एकस्यान्यस्मिन् संक्रमणाभावेन, क्षयवृद्धिः एकस्य कषायस्य क्षयो ह्रासोऽन्यस्य कषायस्य वृद्धिः स एव, वैषम्यलक्षणः वैषम्यस्वरूपः, बन्धः कर्मणो जीवप्रदेशेन जलक्षीरान्योऽन्यमिश्रणवत् मिश्रीभवनम् , तदाद्यस्तु तत्प्रभृतिस्तु, विकल्पतः मेद-प्रमेदतोऽनेकप्रकारः, तत एव नानाविधदुःखमयः सुखकणिकानुस्यूतो नानाक्लेशमयः संसारो नरमर-नारक-तिर्यगमेदाः प्राणिन इत्यर्थः // 7 // मिथ्यादृष्टेः पञ्चेन्द्रियद्वारकवृत्तिविशेषतो मनस आश्रवे कायिक-वाचनिकादिव्यापारसमुल्लासः पापमेवेत्युपदिशति मिथ्यादृष्टेरभिन्नायाः पञ्च चैकक्षणाश्रवे / कायिकादिक्रियाचारः पापमेवेत्यसंशयम् // 8 // मिथ्यादृष्टेरिति / 'मभिन्नायाः' इत्यस्य स्थाने 'भभिप्रायाः' इति पाठो भवितुमर्हति / अभिन्नाया इंति पाठरय सामनं तु नास्मच्चित्ते प्रतिभातीति चिन्त्यम् , अभिप्रायाः पञ्च च च पुनः, अभिप्रायस्य पञ्चविवत्वं पञ्चेन्द्रियविषयविषयकत्वेन भावनीयम् , एकक्षणाश्रवे एकक्षणावर्तिनि कर्मपुद्गलादानफलके योगत्रयान्यतमलक्षणे आंश्रवे, कायिकादिक्रियाचारः कायिक-वाचिक-मानसिकव्यापारः, पापमेव मिथ्यादृष्टेः शुभयोगाभावादेवकारेण पुण्यप्रतिषेधः, इति एवमेतत् , असंशयं सुनिश्चितम् // 8 // मिथ्यादृष्टेः परिणामवैलक्षण्यं भावयतिनान्योऽन्यमनुवर्तेत कृताभ्युपगमेतरौ / तुल्यदोषगुणस्थानौ न कषायक्रमोऽप्यतः // 9 // नान्योऽन्यमिति / कृताभ्युपगमेतरौ कृताभ्युपगमकृतानभ्युपगमौ, अन्योऽन्यं परस्परम् , न नैव, 'अनुवर्तेत' इत्यस्य स्थाने 'अनुवर्तते' इति पाठो युक्तः / सम्यग्दृष्टेः केनचिद्रूपेण कृताभ्युपगमः केनचिद्रूपेण कृतानभ्युपगमोऽपीत्यन्योऽनुवर्तनं तयोर्भवितुमर्हति, मिथ्यादृष्टेस्त्वेकान्त एव परिणाम इति कृताभ्यु