________________ 122 दिवाकरकता किरणावलीकलिता सप्तदशी द्वात्रिंशिका / लक्षण शुद्धपरिणामदशायाम् , आनन्तर्यवृत्तिः आनन्तर्येण निरन्तरतया वृत्ति वर्तनं यस्य स आनन्तर्यवृत्तिः, तु पुनः, एवम्भूतः मिथ्याष्टिः , निवार्यते निवारितो भवति निरुत शुद्धपरिणामे सति अविच्छिन्नप्रवाहरूपेण परिणमनशीलो मिथ्या दृष्टिनिवर्तत इत्यर्थः / / 5 // ___जैनदर्शनेऽशुद्धस्य चित्तवृत्तिविशेषलक्षणपरिणामस्य पापजनकत्वं न मिथ्यादर्शनस्थ शुद्धम्य च चित्तवृत्तिविशेषलक्षणपरिणामस्य पुण्यजनकत्व न सम्यग्दर्शनस्येत्येवं परिणाम विशेषस्य प्राधान्यमुपदर्शयितुमाह न मिथ्यादर्शनात् पापं न सम्यग्दर्शनाच्छुभम् / न च नेति कषायाणां तद्वत्त्यव्यतिरेकतः // 6 // न मिथ्यादर्शनादिति / मिथ्यादर्शनात् एकान्तवादाभिसन्धानजन्यातत्त्वज्ञानात् , न नैव, पापम् अशुभं भवतीति शेषः, एवमग्रेऽपि सम्यग्दर्शनात् यजिनरुक्तं तदेव सत्यमिति रुचितः, न शुभं शुभं भवत्येवेति न नियमः किन्तु मिथ्यादर्शिनः सम्यग्दर्शिनो वा यस्य कस्यचिदशुद्धः परिणामस्तस्य पापं यस्य तु शुद्धः परिणामः तस्य शुगमिति निगर्वः / ननु काम-क्रोधादितः पापं भवति तत्परित्यागतः शुभं भवति, नात्र परिणामविशेष पेक्षेत्यत आह-न चेति, कषायाणां काम क्रोधादीनां, 'तद्वृत्त्यव्य तरे कतः' इत्यस्य स्थाने 'तद्वत्त्यव्यतिरेकना' इति पाठो युक्तः / तद्वत्त्यव्यतिरेकता तद्वत्तः चित्तवृत्तिविशेषलक्षणपरिणामस्थ, अव्यतिरेकता अभिन्नता, न नैव, इति न च किन्तु काम-क्रोधादीनां कषायाणां वित्तवृत्तिविशेषलक्षणपरिणामाभिन्नतैव, काम-क्र धादिपरित्यागस्यापि चित्तवृत्तिविशेषलक्षणपरिणामरूपतव, अत एव काम-क्रोधादिपरिणामतारतम्यादशुभतारतम्यम् , तत्परित्यागतारतम्याच्च शुभतारतम्या मत्यभिसन्धिः // 6 // कषायलक्षणपरिणामविशेषाणां वैचित्यादेव च ज्ञानापरणाद्यष्टविधकर्मबन्धतदुदयादिवैचित्र्यमित्याह क्षयवृद्धिः कषायाणां मिथ्यादृष्टिरसंक्रमात् / वैषम्यलक्षणो बन्धस्तदाधस्तु विकल्पतः // 7 //