________________ दिवाकर कृता किरणावलीकलिता सप्तदशी द्वात्रिविका / 12.1 स्मानमाश्रित्य विनिश्चयोऽध्यात्मविनिश्चयस्तमनतिक्रम्य यथाऽध्यात्मविनिश्चयं वृत्तं शीतोष्णादिद्वन्द्वसहादिलक्षणाचरणालियर्थः, तु पुनः, शैक्षाणां शिक्षाग्रहणशीलान योन्यामन्तव सिनाम् , दीक्षाचारः दीद ग्रहणम् , वर्त्मस्थैर्यानुवृत्तये वर्त्म मुक्तिमार्गः सम्यग्दर्शन:दिस्तस्य यत् स्थैर्यमविचलनं तस्यानुवृत्तये उत्तरकालव्याप्तये भवतीति शेषः // 3 // सुव्रतानीत्युक्तं तत्र किं व्रतभित्याकाक्षा समुल्लमति यद्यपि मासोपवासादीनि व्रतानीति सुप्रसिद्ध तथापि तत्र व्रतत्वं कि, तदपरिज्ञाने व्रतत्वेन व्यवहारोऽशक्य इत्यत आह अपुण्यप्रतिषेधो वा व्रतं. पुण्यागमोऽपि वा / ' युगपत् क्रमशो वेति विपक्षोरुभयं भयम् // 4 // - अपुण्येति / अपुण्य प्रतिषेधः अपुण्यस्य पुण्यविरोधिनः पापकर्मणः प्रतिषेधः पुण्यं मया नाचरितव्यमित्येवं नियमः, वा व्रतं वा अथवा, पुण्यागमः पुण्यस्य प्राप्तिराचरणम् , युगपत् यदैवापुण्यस्य प्रतिषेधस्तदैव पुण्यस्याचरणं, वा अथवा क्रमशः क्रमेण प्रथमपुण्यप्रतिषेधस्तदनन्तरं पुण्याचरणम् , अथवा पूर्व पुण्याचरणम् , ततोऽपुण्य प्रतिषेधः तदेतद्वयं किमित्युपादेयमित्यत आह-विपक्षेति। विपक्षोरुभयं विपक्षस्य अपुण्याचरणस्य पुण्यानाचरणस्य वा उरुभयं महद्भयस्वरूपं भयम् यथा व्याघ्रादिभयान्मृगादिः पलायते तथा अपुण्यप्रतिषेधाः पुण्याचरणं पुण्याचरणाच्च पुण्यानाचरणं च पलायत इति // 4 // एवं च शुद्धः परिणाम आश्रणीय इन्याहव्रताभ्युपगमः शुद्धः परिणामो न नेष्यते / तदानन्तर्यवृत्तिस्तु मिथ्यादृष्टिर्निवार्यते // 5 // बताभ्युपगम इति / अपुण्यप्रतिषेधलक्षणस्य पुण्याचरणस्य वा, व्रतस्थांभ्युपगमः स्वीकारः, शुद्धः निर्मलः परिणामः चित्तस्य वृत्तिविशेषः, न नेव, इष्यते स्वीक्रियते इति न किन्तु व्रतान्युपगमलक्षणः चित्तस्य शुद्धः परिणाम इष्यत एवेत्यर्थः, ततः किं भवतीत्याकाङ्क्षायामाह-तदेति तदा व्रताभ्युपगम.