________________ 120 दिवाकरकृता किरणावलीकलिता सप्तदशी द्वात्रिंशिका / भावबलादेव, एवं किञ्चित् कार्य वसन्तत्तौं भवति किञ्चित् कार्य प्रीष्मर्तावित्येवं तत्तत्कार्यस्य तत्तत्कालनियमः कालिकविशेषणताविशेषेण तत्तत्कार्य प्रति तादात्म्येन तत्तत्कालस्य कारणत्वमिति कार्य-कारणभावबलादेव, एवं दण्डादीनां सत्त्वे घटादीनां सत्त्वं दण्डादीनामभावे घटादीनामभाव इत्येवमन्वय व्यतिरेकाभ्यां तत्तत्कार्यस्य तत्तत्कारणनियमः समवायादिसम्बन्धेन घटादिकार्य प्रति स्वजन्यचक्रभ्रमिजन्यत्वादि. सम्बन्धेन दण्डादिकं कारणमिति कार्य-कारणभावबलादेवेति देश-कालनिमित्तानि निमित्तातीति, अन्वय-व्यतिरेकसिद्धे च कार्यकारणभावे न कस्यचिद् राज्ञ ईश्वरस्य वा नियोगो नियामक इत्याह-अनियोगत इति, वा अथवा, नियोगत. स्तत्सिद्धौ अस्मिन् देशे एतत्समये अस्मात् कारणादिदं स्यादितीश्वरादिनियोगतो देश-कालनिमित्तानां सिद्धौ, नवाऽध्यात्मविशेषतः फलवैलक्षण्यं स्यादिति शेषः, प्रतिविशिष्टतत्तत्पुरुषीयनित्यत्वाशुचित्वादिभावनाप्रकर्षादितोऽध्यात्म बन्धशैथिल्यादिफलवैलक्षण्यं पुरुषकारादिनिष्पाद्यं यद् भवति तत् तस्य स्वतन्त्रपुरुषनियोगतोऽविशेषेणैव सर्वस्य फलसिद्धिः स्यादित्यर्थः, अतोऽध्यात्मविशेषतः फलविशेषोपपत्तये नियोगपक्षमनात्य देश-कालनिमित्तान्यन्वय-व्यतिरेकबलानिमित्तानीत्यभ्युपेयम् , तथा च यद्वस्तु यत्प्रतिनियतदेश-कालनिमित्ततः प्रतिनियतस्वरूपं भवति तदन्यदेशकालनियमतस्तथा न भवतीति स्याद्वादोऽत्राप्यायात्येवेत्याशयः // 2 // मुक्तिमार्गसम्यग्दर्शन-ज्ञान-चारित्रदृढीकरणाय मुनीनां कर्त्तव्यं स्याद्वादागमपरिभावितभुपदर्शयति सुव्रतानि यमं वृत्तं यथाऽध्यात्मविनिश्चयम् / दीक्षाचारस्तु शैक्षाणां वमस्थैर्यानुवृत्तये // 3 // सुव्रतानीति / सुब्रतानि सविधिकानि मासोपवासादीनीत्यर्थः, 'यमम्' इत्यस्य स्थाने 'यमाः' इति पाठो युक्तः / यमाः अहिंसा-अस्तेयापरिग्रहादत्तादान-ब्रह्मचर्याख्याः पञ्च महाव्रताः, वृत्तम् आचरणं, यथाऽध्मात्मविनिश्चयं आत्मा देहादिभिन्नोऽयमुपयोगलक्षणः परमानन्दैकस्वभावो राग-द्वेषादिविनिर्मुक्त इत्येवमा