________________ दिवाकरकृता किरणावलीकलिता सप्तदशी द्वात्रिंशिका / 119 धर्ममाचरति स चाधर्मो न दुःखमुत्पादयति किन्तु सुख मिति न तस्य सुखेन विरोधः, अत एव पुण्यमपि पुण्यानुबन्धिपुण्यं पापानुबन्धिपुण्यमिति द्विविधम्, एवसपुण्यमपि पुण्यानुबन्ध्यपुण्यानुबन्धिभेदेन द्विविधमिति गीयते, अथवा प्रत्ययशब्दोऽत्र कारणवचनः तेन प्रत्ययाव्यभिचारित्वादित्यस्य कारणव्यभिचारित्वादित्यर्थः, स्वपरोभयवृत्तिस्वित्यस्यानन्तरं फलेविति विशेषः, किञ्चित् कारणं स्वगतं फलं करोति यथा तत्तद्रूपक्रियादिसमवायिकारणं, किञ्चित् परगतं फलं जनयति यथाऽसभवायिकारणनिमित्तकारणादिकम् , कपालद्वयसंयोगादिकं दण्डादिकं च घटादिकार्य करोतीति समवायिकारणमेव स्वपरोभयगतसंयोगादिकार्य जनयतीति, स्वपदं च स्वसम्बन्धिवाचकमपीति धर्माधर्मलक्षणकारणयोः स्वाश्रयात्मगतं सुख-दुःख कारणयोरव्यभिचारित्वं सङ्ग्रहीतं भवति, तथा च धर्मस्य सुखरूपफलेऽव्यभिचारित्वादधर्मस्य दुःखरूपफलेऽव्यभिचारित्वाद् धर्मात् सुखं भवति अधर्माद् दुःखं भवति, धर्मस्य दुःखं प्रतिकारणत्वाभावेन धर्माद् दुःखं मा भवतु नाम तथापि धर्मे सत्यपि तत्राधर्मसद्भावे दुःखं भवत्येवेति न धर्मस्य दुःखं प्रति प्रतिबन्धकत्वमिति न दुःखेन सह धर्मस्य विरोधः, अधर्मस्तु दुःखं जनयेत्येवेति नाधर्मस्यापि दुःखेन सह विरोधः, (३मधर्मे सत्यपि तत्र धर्मसद्भावे सुखं भवत्येवेति नाधर्मस्य सुखं प्रति प्रतिबन्धक त्वमिति न सुखेन सहाधर्मस्य विरोधः, धर्मस्तु सुखं जनयेत्येवेति न तस्यापि तेन सह विरोध इति सुष्टूक्तं न दुःखेन विरुध्यते इत्यादीति, भनुकूलवेदनीयत्वप्रतिकूलवेदनीयत्वस्वभावयोविरोधात् सुख-दुःखयोविरुद्धता, विरुद्धस्वभावजनक वस्वभावविरोधाद् धर्माधर्मयोविर धो यदा धर्मस्योदयावलिकाप्रवेशलक्षणफलाभिमुख्यं न तदाऽधर्मस्योदयावलिका प्रवेशलक्षणफलाभिमुख्यमित्येवं दुःखेन समं धर्मस्य सुखेन सममधर्मस्यापेक्षाभेदमाश्रित्यैव भवति स्याद्वादसाम्राज्यमत्रेत्यवधेयम् // 1 // देश-कालनिमित्तानि निमित्तान्यनियोगतः / नियोगतो वा तसिद्धौ न वाऽध्यात्मविशेषतः // 2 // देश-कालनिमित्तानीति / तत्तत्कार्यस्य तत्तद्देशनियमः दैशिकसम्बन्धविशेषेक तत्तत्कार्य प्रति तादात्म्यसम्बन्धेन तत्तदेशस्य कारणत्वमिति कार्य-कारण