________________ दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / 415 इति यत्र साध्यस्य स्वाभाववृत्तित्वरूपो व्यभिचारो नास्ति स हेतुः, एतेन यत्र व्यभिचारो विद्यते स हेत्वाभास इत्यर्थः // 30 // संज्ञासामान्यपर्यायशब्दद्रव्यगुणक्रियाः / एतेनोक्ताः पृथक चेति व्यवहारविनिश्चयः // 31 // संज्ञासामान्येति / संज्ञासामान्यपर्यायशब्दद्रव्यगुणक्रिया: संज्ञासामान्यं सर्वनामशब्दः, पर्यायशब्दः एकार्थवाचकाः शब्दाः एकप्रवृत्तिनिमित्तका अनेके शब्दा इति यावत्, द्रव्य-गुण-क्रियाः द्रव्याणि गुणाः क्रियाश्च, एतेन निर्यातवादिना, उक्ताः कथिताः, द्रव्य-गुण-कर्मणां नामेदः, किन्तु भेद इत्याह-पृथक चेति, इति एवं, व्यवहारविनिश्चयः नियतिवादे व्यवहारव्यवस्था भवति इत्थमुपगमे व्यवहारविलोपो न भवतीति // 31 // नियतिवादेऽपि स्याद्वादयोजनां करोति न नाम तत्त्वमेवैतन्मिथ्यात्वापरबुद्धयः / न वार्थप्रतिषेधेन न सिद्धार्थश्च कथ्यते // 32 // न नामेति / नामेति कोमलामन्त्रणे, हे वादिन् ! एवमत्रावधारय, एतत् भमन्तराभिहितं सर्वं तत्त्वमेवेति एकान्तं न, किन्तु कथञ्चिदेव तत्त्वम्, ने चैकान्तावगाहिनो निर्णया बहवः सन्ति येभ्य एकान्ततत्त्वं सुव्यवस्थितं भविष्यतीत्यत आह - मिथ्यात्वापरबुद्धय इति अपरेषामेकान्तवादिनां बुद्धयोऽपरबुद्धयः मिथ्यात्वस्यापरबुद्धयो मिथ्यात्वापरबुद्धयः मिथ्यात्वविषयकैकान्तबुद्धय इत्यर्थः / अत्रैव हेतुमाह-'न वार्थप्रतितिषेधेन' इत्यत्र 'न चार्थप्रतिषेधेन' इति पाठो युक्तः / चकारो हेत्वर्थः, यतः अर्थप्रतिषेधेन प्रतिषेधस्वरूपेण, न कथ्यते च पुनः, सिद्धार्थः सिद्ध एव प्रमाणान्तरप्रसिद्ध एवार्थः न कथ्यते, किन्तु विधिनिषेधोभयरूपेणार्थः प्रतिपादित भवति तथा प्रतिपादनं च स्याद्वादेनैवेति नियतिवादोऽपि स्याद्वादाकलित उपयात इति भावः // 32 // वादी श्रीसिद्धसेनो नवनवघटनां नव्यमार्गानुगम्यां __ शास्त्रार्थोद्बोधदक्षां बुधगणसुगमा संविधातुं पटिष्ठः / .. तस्यैषा गूढभावा नियतिविषयगा षोडशी नव्ययुक्त्या दृब्धा द्वात्रिंशिकाऽस्या विवृतिरभिनवाऽऽनन्ददेयं प्रपूर्णा // - इति षोडश्या नियतिद्वात्रिंशिकाया विवृतिः //