SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 416 दिवाकरकृत किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / नियतिवादाभिमतान् पदार्थानुपदिशतिव्योमावकाशो नान्येषां कालो द्रव्यं क्रिया विधिः / सुख-दुःखरजोधातुर्जीवाजीव-नभांसि च // 29 // व्योमावकाश इति / व्योमावकाशः व्योम्न आकाशस्यावकाशः स्वभावः, अन्येषाम् आकाशभिन्नानाम् , न नैव, अवकाशः स्वभावः अस्य नियामिका नियतिरेवेति भावः, क्षण लव-विश्ल-पल-दण्ड-मुहर्तादिमेदैर्व्यवह्रियमाणः, काल: समयः, द्रव्यं न तु सूर्यपरिस्पन्दादिः, तस्य कालोपाधित्वेन कालत्वोपचारात्, क्रिया नोत्क्षेपणावक्षेपणादिरूपा, नापि धात्वर्थसामान्य नापि प्रतिषेधः, किन्तु विधिः यजेत् कुर्यादित्यादिलिङ्गादिप्रतिप्रायः प्रवर्तको विधिः, सुख-दुःखरज:धातुः सुख-दुःख-रजोलक्षणो धातुः न तु कफ-पित्त-वाय्वात्मतया प्रसिद्धः, जीवाजीव-नभांसि च उपयोगलक्षणो जोवः, उपयोगरहितोऽजीवः, नमः गगनम्, तस्याजीवत्वेऽपि पृथक्कथनं जीवाजीवोभयाधारत्वस्वभावप्रतिपत्त्यर्थम् // 29 // प्रमाणाभ्युपगन्तृभिः सर्वैरेव वादिभिः प्रत्यक्षं प्रमाणमिन्द्रियप्रभवमभ्युपगतमेवेति तदनुपदर्शनेऽपि तस्य सत्त्वमायातमेव, अनुमाने तु विवाद इति तत्स्वरूपं नियतिवादमन्तव्यमुपदर्शयति - अनुमानं मनोवृत्तिरन्वयनिश्चयात्मिका। त्रैकाल्याङ्गदिवृत्तान्ता हेतुरव्यभिचारतः // 30 // अनुमानमिति। "त्रैकाल्याङ्गादिवृत्तान्तान्वयनिश्चयात्मिका मनोवृत्तिरनुमानम्" इत्यन्वयः / त्रैकाल्यं भूत-भविष्य-वर्तमानकालसम्बन्धि, अङ्गादिवृत्तस्य द्वादशाङ्गगणिपिटकाद्यागमोपदर्शिततत्त्वं तस्यान्तं विषयविधया पर्यवसानं यस्या सा त्रैकाल्याङ्गादिवृतान्ता अन्वयनिश्चयात्मिका अन्वयस्य यत्र यत्र हेतुस्तत्र साध्यमित्येवं सर्वोपसंहारेण साध्यहेतुसहचारलक्षणाविनाभावस्य निश्चयस्तदभावप्रकारकताज्ञानं तदात्मिका तद्रूपा, मनोवृत्तिः मनोजन्या मतिः अनुमानमित्यर्थः, अनुमान ज्ञायमानलिङ्गमनुमितिकरणमिति पक्षे हेतुरेव, अविनाभूतहेतुज्ञानमनुमितिकरणमिति पक्षे हेतुज्ञानं तत्र हेतुः क इत्याकाक्षायामाह-हेतुरव्यभिचारतः
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy