SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ दिवाकर कृत किरणावलीकलिता षोडशी नियतिद्वात्रिशिका / 415 प्रवृत्त्यन्तरिकेत्यादिसप्तविंशतितमपद्यस्य शुद्धयशुद्धयोः सम्यगनवगमादर्थोऽपि यथावन्न ज्ञायते तथाप्यशून्यार्थं किञ्चिदुच्यते प्रवृत्त्यन्तरिका व्याजविभङ्गस्वप्नसंभवात् / न जात्यः संस्मृतेरुक्तं सङ्करोऽन्तरिकान्तजाः // 27 // प्रवृत्त्यन्तरिकेति / प्रवृत्त्यन्तरिका कस्यचित् कार्यस्यानुकूलायाः प्रवृत्तेरपर्यवसानायामेव कार्यान्तरप्रवृत्तिरादृता प्रवृत्त्यन्तरिका, व्याजविभङ्गस्वप्नसंभवात् व्याजः कपटक्रिया वाक्च्छलादिः, विभङ्गो भ्रमात्मकावधिज्ञानं, स्वप्नः स्वप्नवहनाडीप्रविष्टमनोज्ञानं तेषां सम्भवात् भावात, जात्यः स्वाभाविकः, संस्मृतेः सम्यक्स्मरणस्य, न नैव, सङ्करः अन्येन ज्ञानेन सह मिश्रीभावः, 'उक्तम्' इत्यस्य स्थाने 'उक्तः' इति पाठो युक्तः / उक्तः कथितः, कीदृशः सङ्करः ? अन्तरिकान्तजा अन्तरिका स्मृतिः स्मृत्यन्तरिका वा अन्ता स्मृतिरित्येवं संस्मृतेः सङ्करो नोक्त इत्यर्थः, अथवा 'संस्मृतेः' इत्यस्य स्थाने 'संसृतेः' इति पाठः एवाग्रिम पदसंदर्भतो युक्तो भाति, संसृते: संसारस्य, एतदनुसारेणान्यद् व्याख्येयम् // 27 // सृष्टिक्रमः कीदृश इत्याकाङ्क्षायामाहसुरादिक्रम एकेषां मानसा ह्युत्क्रमक्रमात् / सुख-दुःखविकल्पाच्च खण्डिर्यानोऽभिजातयः // 28 // सुरादिक्रम इति / सुरादिक्रमः पूर्व सुरास्ततोऽसुरा इत्येवं सृष्टिक्रमः, एकेषां केषाञ्चिदाचार्याणाम् , मते इति शेषः, अस्य च पूर्वेणोत्तरेण चान्वयः, मानसा मनोद्भवाः पूर्व मानस्यः प्रजाः ब्रह्मणो मनसा जाताः प्रजा इति, हि यतः, उत्क्रमक्रमात् क्रममुल्लङ्घय क्रमाः ब्रह्मा यथेच्छति तथा प्रजा समुत्पद्यत इति मानस्यां सृष्टौ क्रमो नास्तीति भावः, सुराणां सुखमेव भवति नारकाणां दुःखमेव भवति मनुष्यादीनां च सुख-दुःखोभयं भवतीत्यतः सुख-दुःखविकल्पाच्च खण्डिः विभागः इमे सुरा इमे नारका इमे मनुष्या इत्यादि विभजनम्, यानः विभिन्नविमानयानस्थितिकः, अभिजातयः उच्चकुल-नीचकुलाद्युत्पत्तिका इत्यर्थः // 28 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy