________________ 414 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / वादोपबृंहकाः, तु पुनः, अयोजितः कारणान्तरासङ्कलितोऽध्ययनाद्यन्तरेणैव सजातः, प्रतिबुद्धः नियतित इत्यर्थः // 24 // उपदेशमन्तरेण ज्ञानासम्भवात् कथं प्रतिबुद्ध इत्यत आहन चोपदेशो बुद्धः स्याद् रवि-पङ्कजयोगवत् / तत्त्वं च प्रतिबुद्धयन्ते तेभ्यः प्रत्यभिजातयः // 25 // न चोपदेश इति / रवि-पङ्कजयोगवत् यथा सूर्य-कमलयोगः उदिते सूर्ये पङ्कजः प्रफुल्लितो भवति, न च तत्र कोऽपि हे सूर्य ! त्वं कमलं विकाशय, कमल ! त्वं सूर्योदयतो विकसितो भवत्येवमुपदिशति, तथा बुद्धेः ज्ञानस्य, उपदेशः तत्तद्विषयकथनलक्षणः, न च स्यात् न च भवेत्, तर्हि ज्ञानं कथं प्रतिबुद्धस्य भवतीत्याकाङ्क्षायामाह -तत्त्वं चेति प्रत्यभिजातयः विशिष्टजातिमन्तः, तेभ्यः पूर्वागमादिभ्यः अस्य वाक्यस्यायमर्थोऽयं चास्याभिप्राय इति कस्यचिदुपदेशमन्तरेणैव तत्त्वं वस्तु, प्रतिबुध्यन्ते जानन्ति, अयं च स्वभावो नियतिबलादेवेति भावः // 25 // कोटस्वभावास्ते प्रत्यभिजातय इत्याकाङ्क्षायामाहसमानाभिजनेष्वेव गुरुगौरवमानिनः / स्वभावमधिगच्छन्ति न ह्यग्निः सममिध्यति // 26 // समानाभिजनेष्वेवेति / समानाभिजनेष्वेव समानकुल-वंशसमुद्भतेष्वेव, एवकारेणासमानकुल-वंशादीनां व्यवच्छेदः, गुरुगौरवमानिनः गुरोर्धर्माभ्युपदेशकतर्यदु गौरवं महनीय चरित्रत्वपूज्यत्वादिकं तन्मानिनस्तदभ्युपगन्तारः, स्वभावमधिगच्छन्ति स्वभावं प्राप्नुवन्ति, अथवा समानाभिजनेष्वेव गुरुगौरवस्य महद्गौरवस्य मन्तुः स्वभावमधिगच्छन्ति, ननु समाना समानाभिजनेषु सत्सु समभावेन वर्तनमेव युक्तं तथैव समदृष्टित्वस्वभावः स्यादन्यथा विषमदृष्टित्वं स्यादित्यत आह- ह्यग्निरिति हि यतः अग्निः पावकः दाहकस्वभावः, सम तुल्यम् , न नैव, इध्यति प्रज्वलितो भवति दाह्यादाह्यवस्तुसमुदायष्वेकत्रावस्थितेषु दाह्यमेवेन्धनं दहति न च सन्निहितमप्यदाह्यं दहति तथा प्रकृतेऽपि स्वभावस्यापर्यनुयोज्यत्वादित्यपि नियतिवादोपोद्वलकमेवेत्याशयः // 26 //