________________ दिवाकर कृता किरणावलोकलिता षोडशी नियतिद्वात्रिंशिका / 413 न्तत्वशब्दो न जातिरूपार्थस्य, तथापि वाच्य-वाचकयोरभेदोपचाराज्जातीनां तत्त्वान्तत्वम् , तथा च पृथिवीत्व-जलत्व-वायुत्वाद्यास्तत्त्वान्ताः, क्रमजातयः अवान्तरजातयः पूर्व महासामान्यं बुद्धौ स्फुरति तदन्तरमवान्तरसामान्यमतः क्रमिकत्वम् , नित्यानां जातीनामुत्पत्तितः क्रमिकत्वासम्भवात् , अभिव्यक्तितस्तु ऋमिकत्वं सम्भवति महासामान्यज्ञानानन्तरमवान्तरसामान्यज्ञानात्, क्रमजातय इत्यनेन पृथिवीत्वादिजातीनामिव तदवान्तर जातीनां घटत्वादीनामपि ग्रहणम् , तथा च ताभिर्जातिभिः पृथिव्यादीनां तज्जातीयानां घटादीनां च वैलक्षण्यमिति भावः, अरूपादिति भावप्रधानो निर्देश इति रूपरहितत्वात् , अनभिव्यक्तभेदः अभिव्यक्तभेदो येषां न तेऽनभिव्यक्तभेदाः ते, कृष्णाभिजातयः अनेकसङ्कीर्णजातीनां ग्रहणम्, अनेन किमुक्तं साङ्केतिकत्वादागमैकगम्यत्वान्न ज्ञायत इति विचारणीयं सुधीभिः // 22 // सामान्येनानन्तराभिहितां नियतिनियमितवस्तुस्थितिं विशेषतो निदर्शनेन भावयति यथा दुःखादिनिरयस्तिया पुरुषोत्तमाः। रक्तायामजनायां तु सुखजा न गुणोत्तराः // 23 // यथेति / दुःखादिनिरयः अतिशयितासह्ययातनापरिकलितोऽन्योऽन्याभिभवकदर्थितो दुःखातिदुःखातिदुःखतम काम-क्रोध मोहातिरेकशालिनरकस्थानं नियत्यैव तथाविधं नान्यथाभूतं, तिर्यक्षु तिर्यग्योनिषु, पुरुषोत्तमाः विशिष्टातिशयशालिनः पुरुषाः, रक्तायां भूमौ नियत्यैव तथाविधाः, अजनायां तु अजनायां भूमौ पुनः, सुखजाः सुखसमुत्पन्नाः सुखैकभागिनः, किन्तु न गुणोत्तराः एतदपि नियतिमाहात्म्यमिति भावः // 23 // अन्यान्यपि वस्तूनि पूर्वाद्यागमोक्तानि नियतिनियमितानीत्युपदर्शयतिहिंसाविद्याभिचारार्थः पूर्वान्ते मध्यमः शमः / सम्यग्दर्शनभावान्ताः प्रतिबुद्धस्त्वयोजितः // 24 // हिंसेति / पूर्वान्ते पूर्वनामप्रसिद्धागमान्ते, हिंसाविद्याभिचारार्थः मध्यमः शमः सम्यग्दर्शनभावान्ताः येऽभिहितास्ते सर्वेऽपि नियति