________________ 412 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / रित्येतत् कथमित्यत आह-अकस्मादिति नियतिव्यतिरिक्तनियामकाभावा'दित्यर्थः, कारणावेशः तत्तत्सन्ताने तत्तत्कारणप्रवेशः, कथमकस्मादित्याकाङ्क्षायामाह- हेतुधर्माविशेषतः इति अव्यवहितपूर्ववत्तित्वस्य हेतुधर्मस्य तत्संतानगतेऽन्यसन्तानगते च साधारणतया विशेषाभावात्, तथा चायं हेतुरस्मिन् सन्ताने प्रविष्ट इत्यत्र नियामिका नियतिरेवेति भावः // 20 // अतः परं समाप्ति यावन्नियतिवादमन्तव्यमेवोपदर्शयतिस्पर्शनादि-मनोऽन्तानि भूतसामान्यजातिमान् / मनोहन्नियतं द्रव्यं परिणाम्यनुमूर्ति च // 21 // स्पर्शनादीति / स्पर्शनादि-मनोऽन्तानि स्पर्शन-नयन-रसन-घ्राणश्रवण-मनांसि, एतानीन्द्रियाणि, भूतसामान्यजातिमान भूतत्वलक्षणआतिमान् पृथिव्यादिविषयः, तत्र मनः अहन्नियतम् अहं मुख्यहं दुःखीत्यायहङ्कारापराभिधानाभिमाननियतं, द्रव्य पूर्वापरपर्यायानुगामि, परिणामि परिणमनशीलम् , अनुमूर्ति च मूर्तिः शरीरम् , मूर्तिमनुसरतीति अनुमूर्ति, प्रतिशरीरनियतं यावन्ति शरीराणि तावन्ति मनासीत्यर्थः // 21 // मनसोऽहन्नियतत्वादिधर्मवत्त्वेन स्पर्शनादिभ्यो वैलक्षण्ये स्पर्शनादीनां ततो वैलक्षण्यं तद्धर्मराहित्यात् सिद्धमेव, किन्तु स्पर्शनादीनां परस्परवैलक्षण्यं किं निबन्धनमित्याकाङ्क्षायामाह स्पर्शकविषयत्वादिस्तत्त्वान्ताः क्रमजातयः। अरूपादनभिव्यक्तभेदाः कृष्णाभिजातयः // 22 // स्पर्शकविषयत्वादिरिति / स्पर्शकविषयत्वादिः स्पर्श-रूप-रस-गन्धशब्दानां मध्यात् स्पर्शकविषयत्वलक्षणो धर्मः स्पर्शनेन्द्रियस्य, रूपैकविषयत्वलक्षणो धर्मो नयनेन्द्रियस्य, रसैकविषयत्वलक्षणो धर्मो रसनेन्द्रियस्य, गन्धैकविषयत्वलक्षणो धर्मो घ्राणेन्द्रियस्य, शब्दकविषयत्वलक्षणो धर्मः श्रवणेन्द्रियस्येत्येवं परस्परविरुद्धधर्माध्यासात् तेषां वैलक्षण्यमित्यर्थः, पृथिव्यादीनां भूतत्वलक्षणानुगतजातिमतां परस्परवैलक्षण्यप्रयोजिका जातयः का इत्याकाङ्क्षायामाह-तत्त्वान्ताः क्रमजातयः इति तस्य भावस्तत्त्वं तदन्ते यासां तास्तत्त्वान्ताः, यद्यपि जातिवाचकशब्दस्या