________________ दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका। 411 mmmm चैतन्यमपीति / नः नियतिवादिनामस्माकम् , चैतन्यमपि अपिरत्रैवकारार्थः चैतन्यमेव, सत्त्वः आत्मा, ननु नित्यं चैतन्यमात्मेति स्थिरात्मवादिभिरपि कैश्चिदुपेयत एवेति तद्रूपस्यात्मनोऽभ्युपगमे तस्य संसारोऽपि पूर्वापरभवगमनलक्षण उपपत्स्यत इत्यत आह-मोहादिज्ञानलक्षणः इति नातिरिक्तनित्यचैतन्यस्वरूप आत्माऽस्माभिरुपेयते, किन्तु मोह-काम-क्रोध-लोभादिकं यज्जानं तल्लक्षणं स्वरूपं यस्य स मोहादिज्ञानस्वरूपः सत्त्वश्चैतन्यमेवेत्यर्थः, तदादि चैतन्यमादिकारणं यस्य तत्तदादिपूर्वपूर्वचैतन्यकारणकम् , एवंभूतं सत्, तद्वत् तत्सदृशं तज्जातीयं, तस्य संकल्पः स समीचीनतया पूर्वापरभावेन कल्पना रचना यत्र स तदादितद्वत्संकल्पः मोहादिज्ञानस्वरूपं पूर्वपूर्वचैतन्यं तथाभूतोत्तरोत्तर चैतन्यकारणमितिकृत्वा पूर्वापर संकलनास्वरूप एकचैतन्यस्वरूपः, मिथ्याराशिः मोहादिविषयस्य वास्तविकस्याभावात् तद्विषयकमोहादेमिथ्यात्वात् तत्परम्परारूपः, प्रवर्तते जायते / / 19 // - ननु यथैकः कर्ता कारणं न संभवति तथा चैतन्यस्य नानास्वरूपस्यात्मत्वाभ्युपगमेऽपि तत्सन्तानस्यैकस्याभ्युपगमादेककर्तृपक्षदोषस्यात्रापि संभव एवेत्यत आह तुल्यप्रसङ्गो नानात्वे तुल्यनैकेन बाध्यते / अकस्मात् कारणावेशौ हेतुधर्माविशेषतः // 20 // तुल्यप्रसङ्ग इति / नानात्वे आत्मनो नानाज्ञानलक्षणचैतन्यस्वरूपत्वे, तुल्यप्रसङ्गः एकात्मपक्षदोषसमदोषप्रसङ्गः, प्रसङ्गोऽपि मम मते ज्ञानस्वरूप एव, स च तुल्येन ज्ञानत्वेन स्वसमानेन, एकेन केनचिज्ज्ञानेन, बाध्यते सर्वस्य विषयविकलस्य ज्ञानस्य बाधाया अवश्यम्भावेन प्रसङ्गलक्षणमपि ज्ञान बाधकज्ञानेन बाधितं भवति, बाध्य बाधकभावोऽपि कल्पित एवेति, तथा चायं प्रसङ्गो बाधितत्वादेव न क्षतिमावहतीति भावः, ननु पूर्वपूर्वमपि मोहादिविज्ञानमुत्तरोत्तर विज्ञानकाले नानुवर्तते, कारणेऽव्यवहितपूर्ववर्तित्वं कार्ये चाव्यवहितोत्तरवत्तित्वं यथैकसन्तानीयतयाऽभिमतज्ञानेन, तथा भिन्नसन्तानीयतयाऽभिमतज्ञानेनापि, तथा च प्रतिनियतज्ञानान्येवोपादेयैकसन्तानव्यवहृति