________________ 410 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / रागः अयं च द्वेषोऽयं मोह इत्यादिस्वरूपा विभजनाच काः न काचित् तत्पूर्वमिष्टसाधनताज्ञान-द्विष्टसाधनताज्ञानादेरभावादेकस्य जीवस्य पूर्वापरभवसंसर्गनिर्णयाभावादित्यर्थः // 17 // बलवत्तरप्रमाणाभावात् पूर्वापर भवानुगामिन एकस्यात्मनः सिद्धयभावे किं सिद्धमित्याकाङ्क्षायामाह न संसरत्यतः कश्चित् स्व-परोभयहेतुकम् / अभिजातिविशेषात् तु मिथ्यावादमुखो जनः // 18 // न संसरतीति / अतः अनन्तराभिहितात् कारणात्, कश्चित् कोऽपि जीवः, स्वपरोभयहेतुकम् स्वहेतुकं परहेतुकं तदुभयहेतुकं वा, संसरणरूपक्रियाविशेषणत्वात् तद्वाचिनो द्वितीया, संसरति न संसारणक्रियावान् न भवति, न कस्यापि जीवस्य स्वहेतुकः परहेतुकस्तदुभयहेतुको वा संसार इत्यर्थः, नन्वेतादृशलक्षणोऽयं पूर्वमनुष्यभवादस्मिन् मनुष्यभवे आगतः, अयं च देवभवादागत इत्यादिर्वदति जनः, कथानके च तस्य तस्य जीवस्य पूर्वोत्तरभवादिवर्णनमपि धीधनैः कृतमस्ति तस्य कथमुपपत्तिरित्याकाङ्क्षायामाह-अभिजातिविशेषात् त्विति अभिजातिः स्वर्ग-नरकाद्यभ्युपगन्तृजनवंशसमुत्पत्तिः तद्विशेषात् तत्प्रयुक्ताभिमानादितः ततो लाभ-पूजा-ख्यात्यादितो वा पुनः, मिथ्यावादमुखः मिथ्यावदनं मिथ्यावादः स मुखे यस्य स मिथ्यावादमुखः मिथ्यावल्गनस्वभावः, जनः लोकः, तद्वचनस्यामाप्तोक्तत्वेनाप्रमाणस्वान्न ततः संसरणसिद्धिरिति भावः // 18 // ननु भात्मैव स्थिरो भवन्मते नास्ति तर्हि को मिथ्यावदनस्वभावः कस्य तत्तज्जात्याभिमानः तज्जनितसंस्कारो वा तत्प्रभवा मिथ्यावादपरम्पराऽपि कथं लोकव्यापिनी स्यादित्यत आह--- चैतन्यमपि नः सत्त्वो मोहादिज्ञानलक्षणः / तदादि तद्वत्संकल्पो मिथ्याराशिः प्रवर्तते // 19 //