________________ दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिशिका / 409 नान्येषामिति राग-द्वेषापनुत्तये यत्नो विधेय एवेति यत्नवानात्माऽभ्युपेय इति कर्तृवाद आयात्येवेत्यत आह ज्ञानमव्यभिचारं चेज्जिनानां मा श्रमं कृथाः। अथ तत्राप्यनेकान्तो जिताः स्मः किन्तु को भवान् // 16 // शानमव्यभिचारं चेदिति / जिनानामिति राग-द्वेषादीन् शत्रून् जितवन्त इति जिनास्तेषां, चेद् यदि, ज्ञानमयभिचारं व्यभिचाररहितम् , तदा ये जिनास्तेषामेवाव्यभिचारि ज्ञानम्, नान्येषामिति, यदि जिना भवन्तस्तदा यत्नमन्तरेणैव भवतामव्यभिचारिज्ञानम्, यदि च न जिना भवन्तः तदा यत्ने कृतेऽपि न ज्ञानमव्यभिचारीति तदर्थम्, श्रमं यत्नम् , मा नैव, कृथाः कुर्याः, अथ यदि, तत्रापि जिनेष्वपि, अनेकान्तः ज्ञानं भवत्येवेति न नियमः, एवं तर्हि जिताः स्मः अनेनाव्यभिचारिज्ञानेन भवितव्यं व्यभिचारिणा चानेन भवितव्यमिति. नियतिबलात् कस्यचिदव्यभिचारिज्ञानं कस्यचिच्च व्यभिचारिज्ञानमित्यभ्युपगच्छन्तो वयं जिताः म्मः, तावता किमिति पृच्छति-किन्त्विति, उत्तरयति-को भवानिति कर्तृवादे निरस्ते सति न भवान् कर्ता नियतेरनङ्गीकारान्न नियतिवादीत्यर्थः / / 16 // . ___ स्थिरस्यात्मनोऽभावाद् यथा न कर्तृत्वादिः तथा संसारोऽपि न सम्भवतीत्याह-- एकेन्द्रियाणामव्यक्तेरजात्यन्तरसङ्गतौ / व्यक्तानां च तदादौ का रागादिप्रविभक्तयः // 17 // एकेन्द्रियाणामिति / एकेन्द्रियाणां जोवनाम्, अव्यक्तेः स्पष्टज्ञानाभावात्, अजात्यन्तरसङ्गतौ जन्मान्तरसङ्क्रमणाभावे सत्यपि जन्मान्तरक्रमणे अहं पूर्वभवाद् भवान्तरमागतोऽस्मि भवान्तरं गमिष्यामोत्यादि ज्ञानस्यानुमानादिरूपस्याप्यभावाज्ज्ञानाविषये तत्र सत्त्वस्याभ्युपगन्तुमशक्यत्वादेकेन्द्रियाणां भवाद भवान्तरगमनलक्षणसंसारो नास्तीति भावः, व्यक्तानां च स्पष्टज्ञानवतां जीवानां पुनः, तदादौ स्पष्टज्ञानप्रथमसमये, का रागादिप्रविभक्तयः अस्मिन् विषये रागः, अस्मिन् विषये द्वेषः, अस्मिन् विषये मोह इति अयं