________________ 408 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / आत्मा स्थिरः कश्चिद् यद्याश्रयः स्यात् तदा तद्धर्मो यत्नो भवेत्, यदा त्वात्मैव नास्ति तदा कथं धर्मः प्रयत्नः स्यात्, यदा प्रयत्नः स्वयं कचिन्नावतिष्ठते तदा धर्मोऽपि तत्रास्थिरे कश्चित् कथं न धर्मिप्रयत्न इत्यनया दिशा कारणादिस्वरूपत्वमपि तस्य निरसनीयमिति युक्तमसंस्तु हेतुर्थीमात्रं कर्तेति च विशिष्यत इति // 14 // ननु कर्मणा दृष्टमुत्पद्यते ततो धर्मात्मकाददृष्टात् सुखसाधनविषयादिसंप्रयोगतः सुखमुत्पद्यते अधर्मात्मकाददृष्टाद् दुःखसाधनविषयादिसम्प्रयोगतो दुःखमुत्पद्यते, यज्जातीयाद् वस्तुनः सुखं तज्जातीयत्वज्ञानतः सुखसाधनताज्ञानं ततः प्रयत्नः ततः सुखसाधनवस्तूत्पत्तिः ततः पुनः सुखम्, एवं यज्जातीयाद् वस्तुनो दुःखं तज्जातीयत्वज्ञानतो दुःखसाधनताज्ञानं ततो दुःखसाधनवस्तुनि निवृत्तिः ततो न दुःखमित्येवं कर्मादृष्टप्रयत्नपरम्परा यत्र स आत्मा कति कर्तृवादः सुसजत इत्यत आह कर्मजः प्रत्ययो नाम कर्म च प्रत्ययात्मकम् / तत्फलं निरयाद्यश्च न च सर्वत्र विस्मृतः // 15 // कर्मज इति / हे वादिन् ! अत्र प्रक्रियां जानीहि-कर्मजः कर्मजन्यः, प्रत्ययः ज्ञानविशेषः, च पुनः, कमप्रत्ययात्मकं ज्ञानविशेषात्मकम्, तत्फलं कर्मजप्रत्ययफलम्, निरयाद्यश्च नरकादिकच, संसारस्य दुःखबहुलत्वात् तत्र रागो न विधेयः किन्तु ततो विरक्तेन भाव्यमित्यवगतये निरयग्रहणम्, आदिपदात् सुकृतकर्मफलस्य स्वर्गादेर्ग्रहणम्, तदपि फलं ज्ञानविशेषात्मकमेवेति चकारोपादानतो लभ्यते, सर्व वस्तु वैज्ञानिक विज्ञानस्वरूपमेवेत्यावेदनाय, न च सर्वत्र विस्मृतः इति, अत्र 'विस्मृतः' इत्यस्य स्थाने 'विस्मृतम्' इति पाठो युक्तः। विस्मृतम् एवं सर्वस्मिन् विषयेऽवधेयं न तु विस्मर्तव्यमिति भावः // 15 // ननु ज्ञानधारैव समस्ति न तु तदाश्रयः कश्चित् स्थिर आत्मेति नियतिमन्तव्यं न सम्भवति, य एवाव्यभिचारी प्रबोधः स एवं ज्ञानम्, तदन्यजज्बानमज्ञानमेव, अर्थाव्यभिचारि ज्ञानं च राग-द्वेषजेत,णामेव सम्भवति