________________ दिवाकर कृता किरणावलीकालता षोडशी नियतिद्वात्रिंशिका। 400 mmmmmmmmmmmmmmmmm स्यात्, यतः असँस्तु असत् पुनः, हेतुः कारणम् , एतच्च न सम्भवति यत् कुत्रापि कदापि न वर्तते तदसदित्युच्यते, हेतुश्च कार्याधिकरणे अव्यवाहेत. पूर्वकालावच्छेदेन वत्तमानः एवं चासद्धेतुरिति व्याहतत्वादसम्भवद्, धीमात्रं कल्पनामात्रम् , तदेव च कर्तति कर्ता इत्येवंरूपेण, विशिष्यते कर्ताऽयमिति गीयते, वस्तुतो न कोऽपि कर्त्ता काल्पनिक एवायं कर्तवाद इत्याशयः // 13 // ननु असतो हेतुत्वासंभवादसन् हेतुः कल्पनैकशिल्पिनिर्मितत्त्वाद् ध मात्रं भवतु नाम, तच्च कत्तेत्येवं न विशिष्यते, यतः कर्ता व्यापको नित्य आत्मा स सन्नेव हेतुः तस्य कर्तृत्वलक्षणकारकत्वविशेषो वास्तविक एव न काल्पनिकः इति न धीमात्रस्वरूपः स इति कर्तृत्वादो युक्त एवेत्यत आह भगुरश्रवणाद्यर्थसंविन्मात्रे निरात्मके / रागादिशान्तौ यत्नस्ते कथं कस्य किमित्ययम् // 14 // भगुरेति / भङगुरश्रवणाद्यर्थसंविन्मात्रे भगुरं क्षणिकं यत् श्रवणादि श्रवण-मनन-निदिध्यासनादि, तदेवार्थसंवित् अर्थज्ञानं, तन्मात्रे तन्मये, मात्रपदव्यवच्छेदमाह-निरात्मके इति स्थिरात्मरहित इत्यर्थः, विज्ञानसन्ततिरेवात्मा न तु तद्वयतिरिक्तः स्थिर आत्मा समस्ति, आत्मन अभावे तदिष्टस्याभावे तत्साधनत्वस्याप्यभावान्न कश्चित् पुत्र-कलत्रादिः स्थिरः कस्यचिदात्मनः स्थिरस्य समस्तीति विषयाभावादेव न रागः, एवं स्थिरस्यात्मनोऽभावे तद्विष्टस्याप्यभावे तत्साधनत्वमपि न कुत्रापि समस्तीति न स्थिरः कश्चित् कस्यचिच्छत्रुरिति विषयाभावादेव न द्वेषः, इत्येवं रागादिशान्तौ कामक्रोधादिनिवृत्ती, हे वादिन् ते तव, यत्नः प्रवृत्तिनिवृत्तिरूपः, कथं प्रवृत्तिकारणस्येष्टसाधनताज्ञानस्य निवृत्तिकारणस्य द्विष्टसाधनताज्ञानस्य चाभावान्न कथञ्चित् सम्भवतीति, कस्य यत्नः खलु स्थिरात्मनः संभवति यदा खलु स्थिरात्मैव नास्ति तदा न कस्यचिद् यत्न इत्यर्थः, अयं यत्नः, किमिति कि. स्वरूपः धर्मो वा स्याद् धर्मी वा स्यात् , कस्यचित् कारणं वा स्यात् कस्यचित् कार्य वा स्यादित्येवं बहुविधविकल ग्रस्तत्वान्न विज्ञानव्यतिरिक्तस्वरूप उपपद्यते,