SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 106 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / wwwwwwwwwwwwwwww~-~~~ ~~~~~~~vvvvvvvvvvv.. विरोधकृते विरोधाय, न न भवति, अतो धर्मादीनां विरोधपरिहाराय सत्त्वादयो गुणा नितिनियमिताः स्वीकरणीया इति, पूर्वपक्षे युक्तमुक्तं प्रवर्तितव्यमेवेति प्रवर्तन्ते यदा गुणा इति, तत्र गुणपदेन सत्त्वादिगुणत्रयात्मकत्वात् पदार्थानामपि ग्रहणमिति, चक्षुरादीन्द्रियत एव धर्माद्यकस्याविरोधेनोपपत्स्यते, जिनप्रतिमादिकं दृष्ट्वा स्पृष्ट्वा वा धर्मो भवति, पराङ्गनादिकं दृष्ट्वाऽधर्मो भवति गुणसहकृतचक्षुरादीन्द्रियादितो ज्ञानमुपजायते दोषसहचक्षुरादितो विपर्यय-संशयादिस्वरूपमज्ञानमुपजायते, दुःखितान् संसृतिगतान् प्रागिनो दृष्ट्वा वैराग्यमुपजायते विषयलोलुपतासव्यपेक्षचक्षुरादिजनितदर्शनतोऽवैराग्यं भवति, एवं साधुदर्शन-तत्सेवादितो ऽष्टविधैश्वर्यं भवति, दुष्टजनदर्शन-स्पर्शनादितोऽनैश्वर्यमुपजायत इत्येवमपि कारणवैचित्र्यतो धर्मादिविरोधपरिहारः संभवतीति किमिति नियतिकृतगुणनियमेनेत्यत आह–'वक्तुराद्यनिमित्तत्वाद्' इति, एतत्स्थाने 'चक्षुराद्यनिमित्तत्वाद्' इति पाठो युक्तः / चक्षुराद्यनिमित्तत्वात् चक्षुरादिनिमित्तकत्वाभावादिति तदर्थः, भव्यजिनप्रतिमादेश्चक्षुरादिना ज्ञाने जातेऽपि कस्यचिद् भक्तयुद्रे के सति धर्मो भवति, भक्तयुद्रेकश्च सत्त्वगुणोद्रेकाद् भवलि, कस्यचित् पुनस्तत्रैव द्वेषोद्रे के सत्यधर्मों भवति, द्वेषोद्रेकश्च रजोगुणोद्रे कादुपजायते, कस्यचित् पुनर्मोहोद्रेकः स च तमो. गुणोद्रेकात् , सत्त्वादिगुणोद्रेकादिश्च नियतिबलादेवेति एवं ज्ञानादिरपि परम्परया नियतेरेवेति न चक्षुरादिनिमित्तका धर्माद्यष्टाङ्गतेति भावः, वादिकल्पितनिमित्ततो धर्माद्यष्टाङ्गतादिकल्पने तु वादिनामन्योऽन्यं वाग्युद्ध एव स्यान्न तु तत्त्वनिर्णय इत्यत आह–वितथप्रत्ययादपीति मिथ्याज्ञानादपीत्यर्थः, अस्याग्रेतनेन प्रतिसन्धावित्यनेनान्वयः // 12 // ____ बुद्धर्धर्माद्यष्टाङ्गता भ्रान्तिप्रत्ययादपि भवितुमर्हति, न तु सम्यग् ज्ञानादेवेत्यत आह असतो हेतुतो वेति प्रतिसन्धौ च विग्रहः / असंस्तु हेतुर्थीमात्रं कर्तेति च विशिष्यते // 13 // असत इति / वा अथवा, असतः हेतुतः असद्रूपकारणात् इति, एवं प्रतिसन्धौ वादि प्रतिवादिनोः प्रतिसन्धाने च, विग्रहः वागयुद्ध एव
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy