________________ दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / 405 विषयादेरनित्यत्वभावनया वैराग्यमपि निनिमित्तं नादरणीयं स्यात् मुक्तिलक्षणा सिद्धिरपि हेतुमन्तरेण न सम्भवतीति तदर्था प्रवृत्तिरपि न युक्ता स्यादित्यत आह प्रवर्तितव्यमेवेति प्रवर्तन्ते यदा गुणाः / अथ किं संप्रमुग्धोऽसि ज्ञान-वैराग्यसिद्धिषु // 11 // प्रवर्तितव्यमेवेति / सांसारिकोपभोगसाधनतयाऽऽपातरमणीयेषु कामिनीकाञ्चनादिषु विषयेषु परमपुरुषार्थमुक्तिसाधनेषु च ज्ञान-वैराग्यादिषु, प्रवर्तितव्यमिति नियतिबलात् , यदा स्वभावतः, गुणाः प्रवर्तन्ते, तत एव चेष्टमनिष्टं च भवितव्यं भवत्येव, अथ स्वभावतो गुणाना मिदमित्थमेव भवितव्यमिति निर्याततो नियमितत्वेऽनन्तरं, ज्ञान-वैराग्यसिद्धिषु अवश्यभवितालिङ्गितासु, हे वादिन "यदभावि न तद्भावि भावि चेन्न तदन्यथा / इति चिन्ताविषघ्नोऽय गदः किं न पीयते ? // 3 // " इति वचनाथभावनायां निभरमास्थामास्थाय सुखासिकामवलम्बस्व किं संप्रमुग्धोऽसि ज्ञानं भविष्यति न वा, वैराग्यं फलिष्यति न वा ज्ञान-वैराग्यादिसम्पत्तावपि मुक्तिभविष्यति नवेत्येवं चित्तवैकल्यलक्षणसंमोहवान् भवसि, नियतिरेव तव यद् यथा भवितव्यं तत् तथा भावयिष्यति अलं सम्मोहेनेति भावः // 11 // नियतिनियमितैरेव गुणैर्बुद्धैर्धर्माद्यष्टाङ्गताऽपि न विरोधमावहतीत्याह धर्माद्यष्टाङ्गता बुद्धेने विरोधकृते च यैः। वक्तुराद्यनिमित्तत्वाद् वितथप्रत्ययादपि // 12 // धर्माद्यष्टाङ्गतेति / बुद्धः साङ्ख्याभ्युपगतमहत्तत्त्वस्य, यैः नियतिनियमितैः सत्त्वादिगुणैः, धर्माद्यष्टाङ्गता धर्मादयोऽष्टौ अङ्गानि यस्याः सा धर्मायष्टाङ्गा तस्या भावो धर्माद्यष्टाङ्गता धर्माधर्म ज्ञानाज्ञान-वैराग्यावैराग्यश्वर्यानैश्वर्याणामष्टानां मध्ये धर्मस्याधर्मेण सह विरोधो ज्ञानस्याज्ञानेन सह विरोधः वैराग्यस्यावैराग्येण समं विरोध: ऐश्वर्यस्यानैश्वर्येण सह विरोध इत्येवमेकस्या बुद्धर्धर्माद्यष्टाङ्गता विरोधान्न स्यात् किन्तु यैः सत्त्व-रजस्तमोभिर्गुणैर्नियतिनियमितैः धर्माद्यष्टाङ्गता,