________________ 104 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / - पृथिव्या इति / वा अथवा, यथा राजतक्रिया रजतस्येदं राजेतं तस्य क्रिया तत्परिणामः रजतस्य वलय-कटक-केयूरभावलक्षणः परिणामः, पृथिव्या तथाभावनिमित्तलोहादिरूपया पृथिव्या, नावरुध्येत अवरुद्धो न भवति, राजतः परिणामः पृथिवीनिमित्तकोऽपि पार्थिवो न भवतीति यावत् , तद्वत् तथा, अहं कतैत्यदःकृते अहं कर्तेत्यभिमानप्लाविते, पुरुषे आत्मनि, गुणानां ज्ञानादिगुणानाम् , तद्वदितिपदसमन्वयतः अवरोधो न भवतीति, स्वाभाविका आत्मनो ज्ञानादिगुणा नान्यथा भवन्तीति न कर्तृतया कारकत्वमात्मनो भाविकमिति भावः // 9 // यदा च प्रत्यक्षप्रमाणेनैव सिद्धः सिद्धो भवति तदा यावत्पर्यन्तं प्रत्यक्षप्रवृत्तिस्तावत्पर्यन्तं हेतु-हेतुमद्भावसिद्धावपि ततः परं प्रत्यक्षप्रवृत्त्या हेतुर्न सिद्धयेदित्याह सुदूरमपि ते गत्वा हेतुवादो निवर्त्यति / न हि स्वभावानध्यक्षो लोकधर्मोऽस्ति कश्चन // 10 // सुदूरमपीति / ते तव, हेतुवादः आत्मादेः कर्तृत्वादिवादः, सुदूरमपि गत्वा यत्र प्रत्यक्षं न प्रवर्तते तत्र गत्वा, निवत्यंति निवृत्तो भविष्यति, ननु कार्य-कारणभावो वस्तुधर्मो नापलपनीयः, प्रत्यक्षाभावेऽपीत्यत आह-न हीति, स्वभावानध्यक्ष इति न अध्यक्षः प्रत्यक्षगोचरः अनध्यक्षः, स्वभावोऽनध्यक्षो यस्य स स्वभावानध्यक्षः प्रत्यक्षाविषयस्वभावकः प्रत्यक्षविषयस्वभावरहित इति यावत् एवंविधः, लोकधर्मः लोक्यते प्रत्यक्षेण विषयोक्रियते इति लोकः प्रत्यक्षविषयः पदार्थः तस्य धर्मः, कश्चन कोऽपि, न ह्यस्ति न हि न विद्यते, तथा च कार्य-कारणभावोऽपि लोकः प्रत्यक्षप्रमाणागोचरस्वभावको न भवितुमर्हतीति तवाभिमतो हेतुवादो निवृत्तो भविष्यत्येवेत्याशयः // 10 // ननु यदि हेतुवादो नास्ति तदा कञ्चित् कार्य प्रति कस्यचित् कारणत्वाभावेनेष्टसाधनताज्ञानाभावाल्लोकानां क्वचिदपि प्रवृत्तिर्न स्यात्, एवं तत्त्वज्ञानस्य मोक्ष प्रति कारणत्वाभावान्मुक्तयर्थिनो मुक्त्युपाये प्रवृत्तिरपि दुर्घटा, सांसारिक