________________ दिवाकरकृता किरणावलीकलिता षोडशो नियतिद्वात्रिशिका / 403 नोक्ताभ्यामिति / अथवा सुदूरमपि ते गत्या हेतुवादो निवर्त्यतीत्यग्रेऽभिधास्यति तदुपपादनायाह-नोक्ताभ्यामिति / प्रत्यक्षप्रमाणेनैव सर्वप्रमाणज्येष्ठेन वस्तुसिद्धिर्भवति न च हेतौ तत्सम्भवः, कारणत्वस्यैव नियतिवादाश्रयणमन्तरेणानुपपत्तौ तद्विशेषस्य कर्तृत्वादेरनुपपत्त्या कर्तृप्राधान्यवादादिकं सुतरामसम्भवीत्याशयेनाह–अध्यक्षसंपदि अध्यक्षस्य प्रत्यक्षस्य स्पष्टविषयावभासनलक्षणसंपदि, उक्ताभ्यां पृथिव्यादिपरिणामलक्षणविषयतत्प्रबोधाभ्याम्, सह न हेतुरिति शेषः, कार्येग पृथिव्यादिविषयेण तद्विषयकज्ञानेन वा समं हेतुः प्रत्यक्षप्रमाणेनावभासत इत्यर्थः एवं च प्रत्यक्षप्रमाणं पृथिव्यादिपरिणामलक्षणविषयं तज्ज्ञानलक्षणविषयिणं वा कार्य यदाऽवगाहते तदा तत्कारणं कादिकं नावगाहते यदा कादिकं कारणमवगाहते तदा कार्य पृथिव्यादिकं तद्विषयकज्ञानं वा नावगाहत इति न प्रत्यक्षप्रमाणेन कार्य-कारणभावसिद्धिरिति भावः, नोत्पादात् सममिति यदा कार्यमुत्पद्यते तदा कारण मुत्पद्यते इति तयोरे ककालमुत्पदात् कार्येण समं कारणमध्यक्षसंपदि प्रत्यक्षे चकास्तीत्यपि नेत्यर्थः, पूर्वापरभावे सत्येव कार्य-कारणभाव इति कार्य-कारणयोरेककाले उत्पत्त्यभावादित्यर्थः, ननु कार्यकाले कार्योत्पादकाले वा कारणं विनश्यत्येवातो न कायँग समं कारणमध्यक्षविषय इत्यत आहविनाशानुपपत्तश्चेति कार्य काले कार्योत्पादकाले वा कारणविनाशानुपपत्ते. *चेत्यर्थः, तत्र हेतुः भोज्य-भक्ष्यविकल्पतः इति भोज्यं सुख-दुःखायुपभोगक्षम कामिन्यादिकं तजनकमदृष्टमपि भोज्यं तच्च सुखाद्युपभोगेन विनश्यति, एवं भक्ष्यमोदनादिकं गलबिलाधःसंयोगानुकूलव्यापार क्षणभक्षणेन विनश्यति, न च कारणं कार्यस्य भोज्यं नवा भक्ष्यमिति भोग-भक्षणभिन्न कार्य भोज्यभक्ष्यभिन्नं कारणं न विनाशयितुमलमिति निनष्टत्वात् कारणं कार्यकाले न प्रत्यक्षं विषय इति वक्तुमशक्य इति भावः // 8 // किञ्च, कर्तृत्वं नात्मगुणः किन्तु ज्ञानादय एवात्मगुणास्तेषामहमित्यभिमानतः कर्तृत्वारोपेऽप्यात्मनः नान्यथाभाव इति स्वतोऽकर्तुरात्मनः सुख-दुःखादिजनकत्वलक्षणकर्तृत्वं न स्वाभाविकमिति कर्तृप्राधान्यवादो न सम्भवतीत्याशयेनाह पृथिव्या नावरुध्येत यथा वा राजतक्रियाः / गुणानां पुरुषे तद्वदहं कतैत्यदःकृते // 9 //