________________ wowwwm 1.1 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / भ्युपातमित्यर्थः, न प्रतिषिध्यते नियतिवादिना न निराक्रियते, न हि वाङ्मात्रेण किमपि वस्त्वभ्युपगच्छतो वक्तः वक्त्रं वक्रीभवति, न च तथा साधितं वस्तु सिद्धिकोटिमुपढौकते अतो वस्तुगत्याऽसिद्धस्य तस्य निषेधो न युज्यत इति जीवस्य कर्तुः स्वातन्त्र्याभावे, निमित्तानि यान्युपदर्शितानि, न तानि वाल्मात्रप्रभावितानि, किन्तु निमित्तानि वस्तुतो निमित्तानि, एतत् अवारितम् वादिनाऽप्रतिषिद्धमित्यर्थः, अथवा 'दृष्टान्ता कृताशक्तेः' इत्यस्य स्थाने 'दृष्टान्तीकृता शक्तेः' इति पाठः / दृष्टान्तीकृता शक्तेः शरीरेन्द्रियनिष्पत्तौ यो नाम स्वयमप्रभुरित्यनेन दृष्टान्तीकृता अशक्तिः शरीरेन्द्रियनिष्पत्त्यसामर्थ्य यस्य स दृष्टान्तीकृता शक्तिस्तस्यारमनः, स्वातन्त्र्यं सुख-दुःखाद्युत्पत्तावन्यानपेक्षकर्तृत्वं, अनिमित्तं अनिमित्तं यथा स्यात् तथा, न प्रतिषिध्यते किन्तु सनिमित्तमेव प्रतिषिध्यते, तत्स्वातन्त्र्यप्रतिषेधे किं निमित्तमित्याकाङ्क्षायामाह-निमित्तानीति धर्मादर्माद्यदृष्टापेक्षस्यैवात्मनः सुख-दुःखाद्युत्पत्तौ सामर्थ्य न तन्निरपेक्षस्येत्यादीनि निमित्तानि यानि पूर्वमुपदर्शितानि नियतिवादोपोद्वलकानि, तानि निमित्तानि नियत्या नियमितानि कारणानि इत्यवारितम् इत्येतदप्रतिषिद्धं वादिनेत्यर्थः // 6 // कीदृशो नियतिवाद इत्याकाङ्क्षायामाह विश्वप्रायं पृथिव्यादिपरिणामोऽप्रयत्नतः / विषयस्तत्प्रबोधस्ते तुल्ये यस्येति मन्यते // 7 // विश्वप्रायमिति / विश्वप्राय विश्वव्यापकम् , अप्रयत्नतः पुरुषकारमन्तरेण, पृथिव्यादिपरिणामः भू-जल-तेजो-वायुस्वरूपपरिणामाः, विषयः ज्ञानग्राह्यः, तत्प्रबोधः पृथिव्याद्यवगाहि ज्ञानं, ते विषयज्ञाने, तुल्ये समाने यावन् विषयः तावज्ज्ञानं, यस्य विश्वस्य, इति एवं, मन्यते स्वीकरोति नियतिवादोत्यर्थः // 7 // नियतिवादे सर्वस्य विषमत्वं वैचित्र्यादित्याह.. नोक्ताभ्यां सह नोत्पादाद सममध्यक्षसंपदि / विनाशानुपपत्तेश्च भोज्य-भक्ष्यविकल्पतः // 8 //