________________ दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / .. Amawww कारणान्तरेण समीचीनाभीष्टसुखादेरसमीचीनानभीष्टदुःखादेरुपपादने कर्तृ. प्रधानवादस्य व्याहतिरित्याह यत्प्रवृत्त्योपमर्दैन वृत्तं सदसदात्मकम् / तद्वेतरनिमित्तं वेत्युभयं पक्षघातकम् // 5 // यत्प्रवृत्त्येति / यत्प्रवृत्त्या यत्कारणस्य कार्यनिष्पत्त्यनुकूलव्यापारेणेत्यर्थः, उपमर्दैन अन्योऽन्यसंवलनेन, वृत्तं निष्पन्न कार्यम् , कीदृशमित्याकाङ्क्षायामाहसदसदात्मकम् शोभनाशोभनस्वरूपम् , तद्वेति तत्पदं तन्निमित्तपरं तन्निमित्तक वेत्यर्थः, इतरनिमित्तं वा अथवा परिदृश्यमानव्याप्रियमाणकारकातिरिक्तकारक निमित्तकं वा, न तु कर्तृव्यापारमात्रनिष्पाद्यम् , इत्युभयम् उक्तस्वरूपोभयम् , पक्षघातकं कर्तृप्राधान्यवादस्य विघातकम् , यतः यत्कारकव्यापारेण निष्पादितं तत्कर्तृव्यतिरिक्तमिति तन्निमित्तकत्वे कतैव कारणमिति पक्षो नोपपद्यते, अथ च येन नियत्यादिना नियमितं सदभिमतकार्ये व्याप्रियते तदेव नियत्यादितत्कार्यनिमित्तम् , एवमपि निरुक्तकर्तृवादो व्याहन्येतेत्याशयः, सदसदात्मकमित्यस्य स्वद्रव्य. क्षेत्र-काल-भावैः सद्रूपं परद्रव्यक्षेत्र-कालभावैरसद्रूपमित्यादिरप्यर्थोऽवसेयः // 5 // ननु यथा प्रामाध्यक्ष देशाध्यक्ष-प्रधानसेनापत्यादिपरिकरोपेतो भूपतिः राज्यप्रशासनादिकार्ये स्वतन्त्रः कर्तुमकर्तुमन्यथाकर्तुं च समर्थस्तथा जीवोऽपि दृष्टादृष्टकारणचक्रोपेतः सन् सुखादिकार्य करोतीति स्वतन्त्र एवेति कर्तृप्राधान्यवादो निर्वहतीत्यत आह न दृष्टान्ता कृताशक्तेः स्वातन्त्र्यं प्रतिषिध्यते / अनिमित्तं निमित्तानि निमित्तानीत्यवारितम् // 6 // न दृष्टान्तेति / 'दृष्टान्ता कृताशक्तेः' इत्यस्य स्थाने 'दृष्टान्तकृतासकः' इति पाठो युक्तः / दृष्टान्तकृतासक्तेः दृष्टान्ते कृता दृष्टान्तकृता, दृष्टान्तकृता आसकिर्यस्य स दृष्टान्तकृतासक्तिस्तस्य, आसक्तिरावेशः, दृष्टान्तमात्रेण दार्टान्तिकमभ्युपच्छतो वादिन इत्यर्थः, अनिमित्तं निमित्तरहितं वाङ्मात्रप्रभावितं, स्वातन्त्र्यं कर्तुः स्वातन्त्र्यं, राजादिदृष्टान्तेन नियुक्तिकं कर्तुः स्वातन्त्र्यं वाय 26