________________ 400 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / यधीनासु, वृत्तिषु चेष्टादिव्यापारेषु, कर्तृवादः आत्मैवेदं सर्वे करोतीति आत्मन एव शरीरेन्द्रियवृत्तित प्रभवसुख-दुःखादिषु स्वातन्त्र्येण कारणत्वमिति वादः, कोऽस्तु न कोऽपीत्यर्थः // 3 // किञ्च, कर्तृवादे प्राधान्येन कर्तुरेव कारणत्वं, कर्ता च न कोऽपि स्वस्य दुःखमिच्छति नवा नीचकुल-गोत्रादिकमिच्छति किन्त्वतिशयितसुखमेवेच्छति उच्चकुल-गोत्रादिकमेवेच्छतीति सुखमेवोच्चकुल-गोत्रादिकमेव स्यादिति जगद्वैचित्र्यं न स्यात् , अतो धर्मेण गमनमूर्ध्वम् अधोगमनमधर्मेण, धर्मातिशयेन सुखातिशयः अधर्मेण दुःखं अधर्मातिशयेन दुःखातिशय इत्याद्युपपत्तये धर्माधर्मयोरेव सुखदुःखाद्युत्पत्तौ विभिन्नदेश-कालाद्यपेक्षया च सुखातिशयादिकारणत्वमेव तयोरेव वक्तव्यमिति कर्तुः प्रावीण्याभावात् कथं कर्तृवादसम्भव इत्याह धर्माधमौं तदाऽन्योऽन्यनिरोधातिशयक्रियौ / देशाधपेक्षौ च तयोः कथं कः कर्तृसम्भवः // 4 // धर्माधर्माविति / तदा शरीरेन्द्रियनिष्पत्तावात्मनः स्वयमप्रभुत्वे शरीरेन्द्रियाधीनवृत्तिषु कर्तुर्वादासम्भवे च; सुख-दुःखादिवैलक्षण्योपपादकौ धर्माधौं अन्योऽन्यनिरोधातिशयक्रियौ धर्मोऽधर्म निरुणद्धि धर्मोदये सति तत्कार्यमेव सुखादिकं भवति न तु तदवरुद्धो धर्मो दुःखादिकं स्वकार्य करोति, एवमधर्मो धर्म निरुणद्धि अधर्मोदये सति तत्कार्यमेव दुःखादिकमुपजायते न तु तदवरुद्धो धर्मः स्वकार्य सुखादिकं निष्पादयतीत्येवमन्योऽन्यनिरोधक्रियौ, तथाऽतिशयक्रियौ एकस्य जीवनस्य धर्ममतिशेतेऽपरस्य जीवस्य धर्मः यतस्तजन्यसुखापेक्षयोत्कृष्टतरं सुखादिकमपरस्य जीवस्यातिशवितधर्मनिबन्धनं भवति, एवमेकस्य जीवस्याधर्ममतिशेतेऽपरस्य जीवस्याधर्मः, यतस्तजन्यदुःखाद्यपेक्षयोत्कृष्टतरं दुःखादिकमपरस्य जीवस्यातिशयिताधर्मनिबन्धनं भवतीत्येवमन्योऽन्यातिशयक्रियौ न चैतादृशौ तौ देश-कालादिमेदमन्तरेणेति, देशाद्यपेक्षौ चेति तयोरुकस्वभावयोधर्माधर्मयोः, कथं . केन प्रकारेण, कः कीदृशः, कर्तृसम्भवः कर्तृवादोपपत्तिः, धर्माधर्मों न प्रत्य क्षेणानुभूयेते, तथा चेदृशौ तौ नान्यादृशाविति कर्तुं न कर्ता प्रभुः, नियतिवादाभ्युपगमे तु अस्य धर्मस्यानेन स्वभावेन भवितव्यमस्य धर्मस्यानेन स्वभावेन भवितव्यमिति. नियत्या नियमनं सम्भवतीति भावः // 4 // .. .