SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता षोडशो नियतिद्वात्रिशिका / 399 त्वित्यर्थः, तथा च धर्माधर्मावेव पूर्वसञ्चितौ दैवसंज्ञको सर्वप्राणिनां स्वभावविशेषस्य परस्परविलक्षणस्य प्रयोजको किं नियतिकल्पनयेति यदीति भावार्थः, तदा शरीरेन्द्रियसंविदामिदमेव स्याद् नेति वा इदं स्याद् इदं च न स्यादिति वा पुरुषकारः कथमित्यन्वयः, यद्यपि पुरुषकारः प्रवृत्तिनिवृत्तिलक्षणः प्रयत्नः स आत्मधर्मो न शरीरेन्द्रियसंविदाम् , तथापि शरीरधर्मश्चेष्टालक्षणस्तत्तत्कार्यानुगुणः प्रयत्नसाध्यत्वात् पुरुषकारः तथा तत्तद्विषयसंनिकर्षानुकूलेन्द्रियक्रियाऽपि पुरुषप्रयत्नसाध्यत्वात् पुरुषकारः तत्प्रभवा संविदपि तत्तद्विषयावगाहनस्वभावा पुरुषकारः, धर्माधर्मावात्मनि वर्तेते, चेष्टादिश्च पुरुषकारः शरीरादौ वर्तते इति व्यधिकरणत्वान्न धर्माधर्मलक्षणदैवतः पुरुषकारस्य सम्भवः परम्परया कथञ्चित् सामानाधिकरण्येऽपि नियतेरनभ्युपगमे इदं कर्त्तव्यं नेदं कर्त्तव्यमित्येवं पुरुषकारः कथम् अदृष्टतो नियमितुं शक्यः, नियतपुरुषकाराभावे च जगदान्ध्यमेव स्यादतो दैवस्यापि तत्तत्पुरुषकारद्वारा तत्तत्कार्यजनकत्वं नियमितमस्य दैवस्यैतादृशपुरुषकारद्वारतादृशकार्येण भवितव्यमिति नियतिबलादेव नान्यथेति नियतेरनभ्युपगमे पुरुषकारविशेषद्वारा दैवादपि न सुख-दुःखादिव्यवस्थोपपत्तिः पुरुषकारमद्वारीकृत्य दैवमात्रेण च कार्यसम्पदानं दुष्करमेवेत्याशयः // 2 // ___ ननु नियतिकृतनियमनविकलौ दैव-पुरुषकारौ मा भवत आनन्तर्यादिनियामको, कर्ता तु स्वतन्त्रः कारकः सर्व सम्पादयिष्यतीत्यत आह शरीरेन्द्रियनिष्पत्तौ यो नाम स्वयमप्रभुः / तस्य कः कर्तृवादोऽस्तु तदायत्तासु वृत्तिषु // 3 // शरीरेन्द्रियनिष्पत्ताविति / नामेति कोमलामन्त्रणे, यः अक्षपादतनयादिः, शरीरेन्द्रियनिष्पत्तौ अन्यस्य का कथ, स्वशरीरस्यातिसन्निहितस्यात्यन्तोपकारिणः, इन्द्रियस्य च तथाभूतस्य चक्षुरादेः, निष्पत्तौ अविकलावयवाङ्गप्रत्यङ्गस्वरूपोत्पत्ती, स्वयम् ईश्वरकालादृष्टादिनिरपेक्षः, अप्रभुः असमर्थः, किन्तु शुक्रशोणितसंयोगसमुद्भूतबुबुदकललाद्यवस्थादिपरिणतहस्त-पाद-मस्तकाद्यङ्गप्रत्यङ्गनिष्पतितोऽनेनेत्थमेव भवितव्यमिति नियतिबलादेव मनुज-देव-पशु-पक्ष्यादिविलक्षणजातीयस्वभा शरीराथुत्पद्यते, तस्य भक्षपादतमयादेः, तदायत्तासु शरीरेन्द्रिया
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy