________________ 398 दिवाकरकृता किरणावलीकलिता षोडशी नियतिद्वात्रिंशिका / रपि ग्रहणम् , अनेनोच्चकुल-गोत्रादिना भवितव्यमनेन नीचकुल-गोत्रादिना भवितव्यमिति नियतिबलत उच्चकुल-गोत्रादिर्नीचकुल-गोत्रादिः, स्वभावःसर्व सत्त्वानाम् स्वभाव इत्यनेन स्वयमेव जीवो नियत्येदृशो भवति न तु धर्माधर्मादिवशान्नवा पुरुषकारबलान्नापि कालमाहात्म्यादिति बोध्यते, सर्वसत्त्वानां सर्वप्राणिनाम् अपेक्षामेदेन नित्यत्वादिकं जीवमात्रे सम्भवति, आत्मस्वभावेन नित्यतावतामपि प्राणिनां देवादिभावेनानन्तर्यादिभाव इत्यस्यार्थस्य दाायानुगुणं दृष्टान्तमाह-पयःक्षीराकुरादिवदिति पयः पानीयं खलु शीतस्वभावं भवति स्वात्यां शुक्तिमान्तर्गत मुक्तास्वरूपमुपजायते एवं तत्तद्देश-कालविशेषमघानक्षत्रादिपतितं विषादिविभिन्नस्वभावं भवति, तदेतन्नियतिबलादेव, क्षीरं मधुरस्वभावं भवति, गोक्षीर माहिषमजाक्षीरादिकं च विभिन्न स्वभावं नियतिविशेषत एव भवति, अङ्कुरोऽपि तत्तद्वीजपरमाणुसमुद्भूतो नियतिबलादेव वटवृक्षादिरूपेण परिणतो भवति, तथा सत्त्वानां स्वभावो नित्यतादिर्बोध्यः यद्यप्ययं सर्वोऽप्युद्गारः स्वभाववादमनुसरति -यतः स्वभाववादिन इयमुक्तिः "नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन / विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः // 1 // “वह्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः / केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः // 2 // " इति, तथापि ईदृशस्वभाव एव नाकस्मात् किन्तु अस्यानेन स्वभावेन भवितव्यमिति नियतिबलादेवेति स्वभावनियामिकाऽपि नियतिरेवेति नियतिवादव्यवस्थितिरिति // 1 // ननु जन्मान्तरसञ्चितौ धर्माधमौ दैवमिति कथ्येते दैवमेव च प्राणिनां सुख-दुःखादिनिमित्तमाविर्भाव-तिरोभावादिनिमित्तं, किमिति नियतिवादाश्रयणेनेत्यत आह धर्माधर्मात्मकत्वे तु शरीरेन्द्रियसंविदाम् / कथं पुरुषकारः स्यादिदमेवेति नेति वा // 2 // धर्माधर्मात्मकत्वे विति। धर्माधर्मात्मकत्वे तु सर्वसत्त्वानामित्यानुवरते भी गर्मियोस्ताक्षरम्यमिति सत्तामा धर्मियां धर्माधर्मास्मसमर्मतादरम्ये