________________ षोडशी नियतिद्वात्रिंशिका | नियतिकृतनियमकलिता स्वभाववादादिसंमिश्रा / वाणी जयति सुरम्या येषां तान् जिनवरान् नौमि // नियतिवादमुपवर्णयतिनित्यानन्तरमव्यक्तिसुख-दुःखाभिजातयः / स्वभावः सर्वसत्त्वानां पयःक्षीराङ्कुरादिवत् // 1 // नित्येति / नित्यानन्तरमव्यक्ति.” इत्यस्य स्थाने "नित्यानन्तरताव्यक्ति" इति पाठो युक्तः / नित्यानन्तरताव्यक्तिसुख-दुःखाभिजातयः भाव. प्रधाननिर्देशान्नित्यपदेन नित्यत्वस्य ग्रहणं, इदं सर्वदैव भवितव्यमिति नियतिबलान्नित्यत्वं सत्त्वस्य स्वभावः, अनन्तरता आनन्तर्यम्, एकानन्तरमपरस्य भावो यथा मनुष्यभवानन्तरं देवभवभावः, देवभवानन्तरं मनुष्यभवभावः, मनुष्योऽयं देवो भविष्यत्येव देवोऽयं मनुष्यो भविष्यत्येव, एतदनन्तरमनेन भवितव्यमित्येवं नियतिबलादानन्तयं सत्त्वस्य स्वभावः प्राप्तव्यः, 'नियतिबलेन योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा' इत्यादिवचनात्, एवं वह्नेरनन्तरं धूमेन भवितव्यमिति नियतिबलादेव वह्निधूमादीनामानन्तर्य स्वभाव इति, व्यक्तिः व्यक्तता आविर्भाव उत्पत्तिरिति अनेनास्मिन्नेव समये, अस्मिन्नेव देशे उत्पत्तव्यमिति नियतिबलादेव सत्त्वानां प्रतिनियत देश-कालोत्पादस्वभावः, अकारप्रलेषादव्यक्तिः तिरोभावो विनाश इति यावत्, सोऽपि स्वभावः सर्वसत्त्वानामनेनास्मिन् समये. ऽस्मिन् देशे विनष्टव्यमिति नियतिबलादेव भवति, सुखेति कश्चित् प्राणी यावजीवं सुखी भवति, अनेन यावजोवं सुखमेवानुभवितव्यमिति नियतिबलादेव यावजीवं सुखस्वभावः प्राणिनः कस्यचित्, कस्यचित् पुनः प्राणिनः अस्मिन् समये अस्मिन् देशे सुखमनुभवितव्यमनेनेति नियतिबलेन प्रतिनियतकाल-देशसुखस्वभावः सत्त्वानाम्, दुःखेति दुःखमपि कस्यचित् प्रतिनियतदेश-कालमेव भवति तदपि अनेन यावज्जीवं दुःखमेवानुभवितव्यम्, अनेन पुनः अमुकस्मिन् कालेऽमुकस्मिन् देशे दुःखमनुभवितव्य, नान्यस्मिन् काले देशे वेति नियतिबलादेव विलक्षणदुःखस्वभावाः सत्त्वानाम् अभिजातिरुच्चकुल-गोत्रादिः उपलक्षणत्वान्नीचकुल-गोत्रादे