________________ 396 दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / नानाविधान् प्राणिनोऽवलोकनमेव नास्ति स्वभिन्नस्योपदेष्टव्यादेरभावात् तद्दुःखप्रहाणेच्छादेरप्यभावाच्छास्त्रप्रणयनमकिञ्चित्कर मेव तस्येत्यत आह एकचित्तेऽपि वा कृत्स्नदुःखज्ञानोपपत्तितः / ग्राममोहक्षमोदर्कः शासनप्रणयो मुनेः // 31 // एकचित्तेऽपि वेति / एकचित्तेऽपि वा वाकारोऽभ्युपगमवादसूचतकः, नानात्वैकत्वादिकं कल्पितमेव न वास्तिविकमित्युद्धोषितमेव, एवमाप्यापाततः एकत्वं स्वीकृत्य बुद्धस्यैकचित्तेऽपि सर्वविषयकज्ञानात्मके, कृत्स्नदुःखज्ञानोपपत्तितः अशेषप्राणिदुःख ज्ञानसम्भवतः, मुनेः सुगतस्य, शासनप्रणयः प्रणयन रचनं प्रणयः शासनं धर्मशिक्षात्मकं शास्त्रं तस्य प्रणयनम्, कीदृशः शासनप्रणयः इत्याकाङ्क्षायामाह-ग्राममोहक्षमोदक इति, ग्रामः पञ्चस्कन्धद्वादशायतनादिकः, मोहः निरन्वयविनाशिनि क्षणिके वित्त-पुत्र-कलत्रादिकेऽनात्मीये स्थैर्यभ्रान्त्याऽऽत्मीयत्वबुद्धिः, क्षमा क्षणिकाः सर्वसंस्कारा उत्पत्त्यानन्तरं स्वयमेव विनश्यति न कोऽपि कस्यापि नाशक इति परकृतं दुःखाद्युत्पातस्य सहनम्, उदर्कः उत्तरकाले सर्वक्षणिकत्वनैरात्म्यभावनातः कल्याणम् , विषयेण विषयिण उपलक्षणमिति एतद्विषयकः शासनप्रणय इत्यर्थः // 31 // [द्वात्रिंशत्तमपद्यमत्र त्रुटितं प्रतिभाति / ] येयं द्वात्रिशिका बुद्धमततत्त्वावबोधिका // सिद्धसेनकृता गूढभावान्वयसमुज्जवला // 1 // तत्रैषा योजिता वृत्तिर्मया लावण्यसूरिणा / संक्षिप्ता सरला भक्त्या गुरोरेव सतां मुदे // 2 // इति बौद्धसन्ताननाम्न्याः पञ्चदश्या द्वात्रिशिकाया कृता विवृतिः / /