________________ दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका। 395 सन्तानैकत्वं च न स्यादिति चेद् न स्यादेव किं नः छिन्नमित्याह-न नानात्वं न चैकतेति तद्वयवहारस्तु काल्पनिक एव, न पारमार्थिक इत्यभिसन्धिः // 29 // ननूक्तोक्तित एतदप्यायाति यथाऽविद्या-तृष्णयोर्न नानात्वं नाप्यभेदः तथा सन्तानानामपि न नानात्वं नाप्येकत्वं सोपप्लवचित्तानुपप्लवचित्तयोरपि न नानात्वं नाप्येकत्वं, विकल्पमात्रगोचरयोस्तयोरभावात्, एवं सति समानविषयकज्ञानयोरपि विषये एकत्वं नानात्वं न भवेत् , कल्पितत्वस्य तत्राप्यविशेषादित्याशङ्कामिष्टापत्त्या परिहरति समविज्ञानयोस्तद्वद् वेधे कान्तमतः शिवम् / श्रोतःप्राप्त्यादिरस्यास्तु विकल्पोऽरणिवह्निवत् // 30 // समविज्ञानयोरिति / समविज्ञानयोः समानविषयकविज्ञानयोरित्यर्थः, तद्वत् पूर्वेऽपि दर्शितवत्, वेद्य ग्राह्ये, न नानात्वं न चैकतेत्यनुवर्तते, इत्थं भावनातः किं भवतीत्याकाक्षायामाह-कान्तमिति, अतः एतस्माद् विचारात्, कान्तं मनोज्ञम्, शिवं कल्याणम्, भवतीति शेषः तच्च पूर्वोपवर्णितं निर्वाणमेवेति, ननु तस्य नानात्वैकत्वादिरहितस्य भवनदीपारप्राप्तिविसभागपरिक्षयशिववम॑ध्रुवाध्वादिरूपकल्पना कथमित्याकाङ्क्षायामाह-श्रोतःप्राप्त्यादिरिति आदिपदाद् विसभागपरिक्षयादेरुपग्रहः, अस्य शिवस्य, विकल्पः मतभेदेन कल्पितनामभेदः, अस्तु भवतु, नैतावता वस्तुतत्त्वं स्वलक्षणात्मकं भिद्यत इति निगर्वः, अत्र दृष्टान्तमाह-अरणिवह्निवदिति अरणि द्वयसङ्घर्षोद्गत वह्निर्यथाऽरणीनां तत्कारणानां वैचित्र्यात् तत्तत्काष्ठनाम्ना सङ्कलितनाम्ना व्यपदिश्यते तादृशव्यपदेशलक्षणो विकल्पो न दोषावहस्तथेत्यर्थः // 30 // ननु साकारविज्ञानवादो बुद्धशिष्यस्यैव योगाचारस्यानुमतः तत्राकारो ज्ञानादभिन्न एव ज्ञानविषय इति ज्ञान-ज्ञेययोस्तदात्म्यमेव सम्बन्धः, तथा च ज्ञानविशेषस्वरूपो बुद्धो यान् पदार्थान् घट-पटादीन् शिष्यश्रोतृप्रभृतीन वादिव्रातांश्च पश्यति ते सर्वेऽपि बुद्धज्ञानविषया बुद्धज्ञानाकारा एकं बुद्धचित्तमेवेति दुःखितान्