________________ 394 दिवाकरकृता किरणाबलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका / wwwwwww ननु निरुपप्लवचित्तं प्रति सोपप्लवचित्तं तत् कुर्वद्रूपात्मकं कारणमिति भवतु प्रथमं निरुषप्लवचित्तं सोपप्लवचित्ताद् द्वितीय-तृतीयादिनिरुपप्लवचित्तोत्पत्तिस्तु कथम्, प्रथमा निरुपप्लवचित्तादिकाले सोपप्लवचित्ताभावात्, अदृष्टकल्पना तु दृष्टविरोधान्न सम्भवत्येव, येन निरुपप्लवचित्तस्यापि निरुपप्लवचित्तकुर्वद्रूपत्वमुररीकृत्य ततो निरुपप्लवचित्तोत्पत्तिः स्वीक्रियेतापि तथा च निरुप्लवचित्तसन्तानाभावात् तद्रूपो निरोधो न सम्भवतीत्यत आह अकुरव्यक्तिनिष्पत्तिश्चेतःसत्त्वस्य तत् कथम् / अविद्या-तृष्णयोर्यद्वन्न नानात्वं न चैकता // 29 // ____अकुरव्यक्तिनिष्पत्तिरिति / चेतःसत्त्वस्य चित्तस्वरूपस्यात्मनः, निरुपप्लवचित्तस्येति यावत्, तत् तस्मात् सोपप्लवविज्ञानात्, अकुरब्यक्तिनिष्पत्तिः उत्तरोत्तरनिरुपप्लवविज्ञानव्यक्त्युत्पत्तिः द्वितीय-तृतीयादिनिरुपप्लवज्ञानस्य प्रथमनिरुपप्लवज्ञानानन्तरोद्गतत्वादङ्कुरत्वेनोत्कीर्तनं तत्सन्तानलक्षणमोक्षतरोस्तत एवात्मलाभात् , कथं कथं भवेत् तदव्यवहितपूर्वक्षणे सोपप्लवचित्तस्याभावात् निरुपप्लवचित्तस्य निरुपप्लवचित्तं प्रति कारणत्वस्यादृष्टचरत्वेन कल्पयितुमशक्यत्वादिति प्रष्टुर्गुढाभिसन्धिः, कार्य-कारणभावकल्पनायां साजात्यं वैजात्यं वा न तन्त्रम् किन्तु यद् यत् कुर्वपात्मकं तत् तत् सजातीयं विजातीयं वा भवतु उभयथाऽपि तदन्यथानुपपत्त्या तत्कारणतया कल्प्यते, अदृष्टवैमत्यस्यान्यथानुपपत्यैव प्रतिक्षिप्तत्वात्, यथाऽविद्यया विद्याऽप्युपजायते, अविद्यापि, तृष्णया तृष्णाऽपि भवति वैतृष्ण्यमपीत्युत्तरयति-अविद्या-तृष्णायोर्यद्वदिति यथाऽविद्या-तृष्णयोस्तत्सजातीयात् तद्विजातीयाच्चाङ्कुरव्यक्तिनिष्पत्तिस्तथा प्रकृतेऽपीत्यर्थः, स्वलक्षणमेव वस्तुस्वरूपं साजात्य-वैजात्यादिकं तु न निर्विकल्पकप्रत्यक्षात्मकप्रमाणगोचरः, विकल्पस्य तु न प्रामाण्यमिति वस्तुस्थितौ यत्कुर्वपात्मकं तत् ततस्तदुत्पत्तिरित्येव प्रमाणगोचरं इति प्रथमस्य निरुपप्लवचित्तस्य सोपप्लवचित्ताद् द्वितीयादेश्च निरुपप्लवचित्तस्य निरुपप्लवोचत्तादुत्पत्तिरित्यभ्युपगमे दोषाभावात् / ननु साजात्यवैजात्यादेरनङ्गीकारे नानात्वैकत्वादिकमपि न कस्यचिद् रूपादिति सन्तानमेदः