________________ दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तानद्वात्रिंशिका। 393 कार्यविशेषबलादेवोन्नेतुं शक्यते यथा यथा यद् यत् कार्यमुपजायमानं दृश्यते तथा तथा तदनुगुण एव मनस्कारचारः कल्पयितुं शक्य इति न चैवं मनस्कारस्य वासनालक्षणवशादेव स्मृतिसङ्गादिभावे मोक्षलक्षणपरमपुरुषार्थोऽपि तत एव भविष्यतीत्येवमेव सुगतदर्शनाकूतमास्थयमुत तत्रास्ति किञ्चिद्वक्तव्यमित्याकाङ्क्षायामाह-संस्कारायतनापेक्षमिति बुद्धस्य शास्त्रलक्षणोपदेशे आर्यसत्यनामधेया दुःख-समुदय-मार्ग-निरोधाचत्वारः पदार्था उपदिष्टाः तत्र विज्ञान-वेदना-संज्ञासंस्कार-रूपभेदात् पञ्चविधं दुःखम् , विज्ञानादयश्च चयापचयरूपत्वात् स्कन्धशब्देन व्यपदिश्यन्ते तत्र सर्वक्षणिकत्वज्ञानं विज्ञानस्कन्धः पूर्वभवपुण्य-पापपरिणामबद्धसुख-दुःखानुभवलक्षणो वेदनास्कन्धः, सर्वमिदं सांसारिक सचेतनाचेतनस्वरूपं नाममात्रं संज्ञास्कन्धः, इहभव-परभवविषयः सन्तानः पदार्थनिरीक्षणरूपप्रबुद्धपूर्वभवानुभूतसंस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारस्कन्धः, परमाणुप्रचयो रूपस्कन्ध इति राग-द्वेष-मोहकारणीभूतः भात्मात्मीयस्वभावाख्यः समुदयः, क्षणिकाः सर्वसंस्कारा इत्याकारिका ज्ञानसन्तानरूपा वासना मार्ग इत्युच्यते / अपवर्ग-मोक्षपदाभिधेयो वस्तुमात्रक्षणिकत्व-वस्तुमात्रनैरात्म्यवासनारूपो निरोध इति कथ्यते, एवमार्यसत्यरूपतया दुःखादीनां चतुर्णा यथोपदिष्टता, तथा द्वादशायतनत्वेनापि तत्त्वप्ररूपणा, तत्र स्पर्शनादीनि पञ्चेन्द्रियाणि शब्दाद्याः पञ्चविषयाः मानसं धर्मायतनं चेति द्वादशायतनानि,एवमन्यान्यपि द्वादशायतनानि यथा जाति-जरा-मरण-भव-उपादान-तृष्णा-वेदना-स्पर्श-षडायतननामविज्ञान-संस्कार-अविद्यारूपाणीति, तत्र यत् संस्कारायतनं तदपेक्षं तदधीनं संस्कारायतनस्य पूर्वभावे सत्येव सर्ववस्तुक्षणिकत्ववस्तुमात्रनैरात्म्यवासनारूपो विरोधइत्याह-निरोधापत्त्यनन्तरमिति भावप्रधानो निर्देशोऽयम्, तथा च निरुक्तस्वरूपस्य निरोधस्य या आपत्तिः प्राप्तिः, तस्या अनन्तरत्वं नैरन्तयं विजातीयज्ञानान्तर्यरहितत्वं, वासनाऽपि ज्ञानविशेष एव तेन विजातीयज्ञानानन्तरितवस्तु. मात्रक्षणिकत्ववस्तुमात्रनैरात्म्यज्ञानविशेषसन्तानलक्षणो निरोधः संस्कारायतनाधीनो भवतीत्यर्थः, निरुक्तनिरोधश्च निरुपप्लवचित्तसन्ततिस्वरूपपर्यकसित एव, स च तत्कुर्वद्रूपात्मकसोपप्लवज्ञानविशेषरूपसंस्कारायतनतो भवन्न विरुध्यत इति भावः // 28 //