________________ 391 दिवाकरकृता किरणावलीकलिता पश्चदशी बौद्धसन्तानद्वात्रिंशिका / W पृच्छार्थः, उत्तरर्यात-स्मृतिसङ्गसमास्त्विति, तु पुनः, स्मृति स्मरणात्मकविज्ञानं तच्चानामभावेऽप्युदयति तया सह योऽर्थानां प्रतिनियतविषयाणां सङ्ग इयमस्य स्मृतिरियं त्वस्येत्येवंरूपः, स कल्पनानिमितवपुरेव यस्याः स्मृतेर्यो विषयः सोऽपि तदानीं नास्तिऽन्योऽप्यर्थस्तदानीं नास्तीत्येवमसत्त्वाविशेषेऽपि वासनाविशेषात् कल्पिविषविषयिभावादेव व्यवहारवीथीमवतरति सः कल्पितत्वेन तत्सदृशाः इमाः उपदेशतः प्रत्यक्षीक्रियमाणा इव, भक्तयः एतस्मात् कर्मणः संक्लेशो भविष्यति एतस्माच्च शुद्धिर्भवष्यतीति विभजनाः प्रतिनियतकार्य-कारणभावविभागरूपाः, यथा वह्नि प्रति तृणत्वेनारणित्वेन मणित्वेन च कारणत्वं व्यभिचारान्न सम्भवति किन्तु तृणारणि-मणीनां वह्निजननकुर्व पत्वेनैव कारणत्वमथापि कुर्वत्र पत्वविशेषस्याभिव्यजकतया तृणत्वादीनां जनकतावच्छेदकत्वं परिकल्प्य ता! वहिरारणेयो वह्निरित्येवं विशिष्य व्यवहारस्तथा प्रकृतेऽपि विशिष्योपदेशः काल्पनिक इत्याहतेजस्यरणिवृत्तिवदिति, भरणीति तृण-मण्योरप्युपलक्षणम् // 27 // ननु सौगतमते निरन्वयविनाशिन एव पूर्वोत्तरविज्ञानक्षणाः तेषामन्योऽन्यसम्बन्धाभावात् प्रतिनियतैका सन्ततिर्न घटते, इति विज्ञानसन्ततिरात्मस्थानीया कथं, तदन्तरेण यस्मिन् सन्ताने अनुभवकर्मवासनास्तस्मिन् सन्ताने स्मृतिकर्मफलोपभोगादय इत्यादि कल्पनाऽपि कथम् , येन काल्पनिको व्यवहारः स्यादित्यत आह - चित्तचारवशात् सङ्गः स्मृतिवन्न विरुध्यते / संस्कारायतनापेक्षं निरोधापत्त्यनन्तरम् // 28 // चित्तचारवशादिति / अथवा यस्मिन् विज्ञानसन्ताने अनुभववासनास्त. स्मिन्नैव सन्ताने स्मृतिरित्येवं स्मृतिसङ्गोऽपि कथं येन स्मृतिसङ्गसमा भक्तय इति युज्यतेत्यत भाह-चित्तचारवशादिति चित्तस्य मनस्कारस्य यश्वारः प्रतिक्षणं तत्तज्ज्ञानजननकुर्व द्रूपतयोत्पत्तिस्तबलादित्यर्थः, सङ्गः पूर्वोत्तरविज्ञानक्षणयोरेकसन्तानानुस्यूततत्त्वल्क्षणसम्बन्धः स्मृतेर्वा सन्तानविशेषे विषयविशेषेवा सम्बन्धविशेषः, स्मृतिवत् यथाचित्तचारविशेषात् कदाचिदेव, क्वचिदेव स्मृतिर्भवति तथा, न विरुध्यते नासम्भवी, अचिन्त्यः खलु मनस्कारस्य महिमा यः