________________ दिवाकरहता किरणावलीकलिता पन्चदशी बौद्धसन्तामद्वात्रिशिका / 391 जन्मेति यावत्, न युक्तिरयुक्तिर्वियोगः प्राणेन्द्रियशरीरादिभिर्वियोगो मरणमिति यावद् रूपविज्ञामजन्मवदिति जन्मपदोपादानस्वारस्याद् वियुक्तिपदेन मरणस्य ग्रहणम् , आयुःकर्मक्षयाद् यथा सुख-दुःखाभावान्यतरभिन्नमपि मरणं सुगतस्य भवत्येव, तथा निरुक्तदुःखमपि पूर्वकर्मविपाकतः स्यादेव तदेतत्स्वार्थहानापादनमिष्टापादनरूपत्वान्न दोषावहमिति भावः // 26 // ____ननु निरन्वयचित्सन्ततिरूपे आत्मनि बुद्धाभ्युपगते कर्तुरभोक्तृत्वं भोक्तुश्चाकर्तृत्वमिति वस्तुस्थिती निन्दितकर्माचरणतो विविधनरकगतिप्रभवः संक्लेशो भविष्यतीत्येवमागन्तुकसंक्लेशभयस्य कर्तृभूतज्ञानस्याभावान्निन्दितकर्मनिवृत्तिर्न भवेत् , विहितकर्मकर्तुर्ज्ञानस्य कर्मक्षयादिलक्षणाया विशिष्टयोगप्राप्त्यादिलक्षणाया वा चित्तशुद्धेरभावात् तत्र प्रवृत्तिरप्यनुपपन्नेत्यत आह न चास्यागन्तुसंक्लेशः शुद्धिर्वा भक्तयस्त्विमाः। स्मृतिसङ्गसमः किन्तु तेजस्यरणिवृत्तिवत् // 27 // न चास्यागन्तुसंक्लेश इति। अस्य वर्तमानक्षणैकसत्त्ववादिनो बुद्धस्य, मते इति शेषः, आगन्तुसंक्लेशः अतीतानागतकालयोरभावात् आगामिकालभाविनरकयातनादिः, न च नास्त्येव, किन्तु यद् यद् कुर्वद्रपात्मकं यज्ज्ञानं भवति तत् तज्ज्ञानानन्तरं तद् भवतीत्येव नियमः एवं चाधाराधेयभावाभावात् कर्तरि तद् भवति, भोक्तरि तद् भवतीत्येव नियमः, एवं चाधाराधेयभावाभावात् कर्तरि तद् भवति, भोक्तरि तद् भवतीत्येव नेष्यते, किन्तु संक्लेशजननकूर्वद्रूपात्मकाज्ज्ञानात् संक्लेशविज्ञानक्षण उपजायत इत्यवोररीक्रियत इति, शुद्धिर्वा कादिगता शुद्धिर्वा न च, आगामिकालगता शुद्धिरपि नास्ति, किन्तु निरुपप्लवचित्तसन्ततिलक्षणशुद्धिकुर्वद्रू पात्मकाज्ञानादनन्तरक्षणे निरुक्तशुद्धिरुपजायते इत्येव वस्तुस्थितिः / नन्वेवं तत्तत्कार्य प्रति तत्तज्जननकुर्व पत्वेनैव यदि कारणत्वं तदा एतस्मात् कर्मणः संक्लेशः एतस्माच्च शुद्धिरित्याधुपदेशः, कथमुपपद्यता मित्यत आहभक्तयस्त्विमा इति। 'स्मृतिसङ्गसमः' इत्यस्य स्थाने 'स्मृतिसङ्गसमाः' इति पाठो युक्तः / किन्तु स्मृतिसङ्गसमास्तु इमा भक्तय इत्यन्वयः। किन्त्विति यद्यागन्तुक संक्लेशो नेव, शुद्धिर्वाऽऽगामिनी नास्ति तर्हि तदुपदेशस्य का गतिरिति