________________ 390 दिवाकरकृता किरणावलीकलिता पञ्चदशी बौद्धसन्तामद्वात्रिंशिका / कारित्वलक्षणसत्त्वसम्पादकतयोपदेशसाफल्य द्रढयितुं निदर्शनमाह-"रूपं विज्ञानजन्मवद्' इति अत्र “रूपविज्ञानजन्मवद्" इति पाठो युक्तः / रूपविज्ञानजन्मवत् यथाऽस्य भगवतः सुगतस्य क्षपणकमुनिवेषादिलक्षणं सत्त्वप्रकर्षादियोगि देदीप्य. मानकान्त्यादिलक्षणं वा रूपं सर्वपदार्थविभासकं विज्ञानं मायादेवीगर्भाविर्भावलक्षणं जन्म च न विफल तथोपदेशोऽपि न विफल:, रूपादिष्वपि शङ्काशीलानां शङ्का स्यादेव किमर्थमस्य रूपमीदृशं किं चास्य सर्वज्ञानस्य प्रयोजनम् , किमर्थमस्य मायादेवीतो जन्मेति, उपदेशकरणात् प्रागेव तु रूपादिकमस्याभवदेव, तत्र यथा साफल्यं तथा शास्त्रलक्षणोपदेशोऽपीत्यर्थः, ननु राग द्वेष-मोहाभिभूतानपारसंसारसागरनिमग्नान् दुःखितान् जोवान् दृष्ट्वा दुःखितः सन् कारुणिकस्तदुद्धाराय मोक्षसाधनमुपदेष्टुमर्हति कृतकृत्यस्य तु भगवतः सुगतस्य दुःखितजनदर्शनतो दुःखं न भविष्यत्येवेति नोपदेशकरणप्रवृत्तिः सम्भवति, प्राणिजनदुःखदर्शनेन सोऽपि दुःखितो यदि तदा तदुपदेशेन तत्त्वं ज्ञात्वाऽपि तद्वदेव जनाः दुःखिता एव स्थास्यन्तीति विफले तदुपदेशेन जनानां ग्रहणप्रवृत्तिरित्यत आह-दुःखमुत्पद्यते तस्येति तस्य सुगतस्य सर्वज्ञत्वे सत्यपि, दुःखं दुःखितजनदर्शनप्रभवं जन्मान्तरोपात्तस्वदुष्कृतप्रभवं वा दुःखम् उत्पद्यते, तदानीमप्युपजायते, एतदर्थमेव वर्तमानार्थकाख्यातप्रयोगः, स्वजनवर्तमानकालीनदुःखस्वीकारश्च सुगतस्य भिक्षार्थमटत चरणे कण्टके लग्ने "इत एकनवतेः कल्पे शक्त्या मे पुरुषो हतः / ___ तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः ! // 3 // " इति वचनेनावगम्यते, अत्र प्रथमचरणे 'इत एकनवतेः कल्पे' तृतीयचरणे 'तेन कर्मविपाकेन' इति स्याद्वादमजा पाठः, कर्मग्रन्थे तु 'इत एकनवतौ कल्पे' इत्येवं पाठभेदो दृश्यते, त्था च तदपि कर्म बुद्धसन्ताने सम्भावनापथमवतरति यत् कर्मफल दुःखं सदुपदेशपरिभ्रमत एवोपजायत इति तदर्थकत्वमुपदेशस्य युक्तमेवेति भावः। नन्वेवं परदुःखप्रहाणेच्छयोपदेशपरिश्रमप्रभवदुःखमात्मन्यनुभवतोऽस्य सुख-दुःखाभावान्यतरात्मकस्वार्थस्य हानिः स्यात् नहिं रथ्यापुरुषादिरपि स्वार्थहानाय यतते, ततः स्वार्थरक्षणार्थ प्रेक्षावतोऽस्योपदेशाकरणमेव बरमित्यतः आह-स्वार्थहानमयुक्तिवदिति युक्तियोगः प्राणेन्द्रियशरीरादिभिः संयोगो