________________ दिवाकरकृता किरणावलोकलिता पञ्चदशी बौद्धसन्तानद्वात्रिशिका / 389 हीति हि यतः, इष्टमनिष्टं वा मान्यमानः, दोष गुणं वा परिकल्पयेत् न तु मन्ता पुरुषः मन्तव्यौ दोष-गुणौ च वस्तुतः समस्तीत्यर्थः // 24 // लोकोनां प्रवृत्तिः कल्पनामेबोपजीवति न वस्तुस्थितिमित्याहपटहध्वनिवल्लोकः कल्पनामनुवर्तते / यतः स्वभावो भावो वा तस्य वक्तुं न युज्यते // 25 // पटहध्वनिवदिति / पटहध्वनिवत् दूरे स्थितिस्य पटहस्य ध्वनिमुपश्रुत्य यथा विभिन्नदेशस्थिता बाला यत्रायं पटहध्वनिस्तत्रोत्सव इत्येवं परिकल्प्य पटहध्वनिमनुसरन्ति तत्रोत्सवः, भवतु मा वा, यत्रोत्सवस्तत्र पटहध्वनिरित्येवं कल्पना तु समस्त्येव, तथा लोकः व्यवहारपरायणो जनः, कल्पनामनुवर्तते यथा यथा कल्पना भवति तथा तथा प्रवर्तते, कथं व्यवहृतिविषयस्य स्वतत्त्वमालोच्यैव न लोकव्यवहृतिरित्यत आह-यत इति, यतः यस्मात् कारणात्, तस्य व्यवह्रियमाणस्य, स्वभावः असाधारणधर्मः, वा अथवा, भावः सामान्यतः सत्त्वं, अकारप्र लेषे अभावः असत्त्वं, वक्तुं निर्वक्तुम् , न युज्यते-न घटते सत्त्वासत्त्वाभ्यामनिर्वचनीयो व्यवहर्तव्य इत्याशयः // 25 // ननु सर्वस्य व्यवहतव्यस्य सत्त्वासत्त्वाभ्यां सामान्य-विशेषाभ्यां वा निर्वक्तुमशक्यत्वे सुगतस्योपदेशस्वरूपं शास्त्रमपि निष्प्रयोजनं स्यादित्यत आह न चोपदेशवैफल्यं रूपं विज्ञानजन्मवत् / दुःखमुत्पद्यते तस्य स्वार्थहानमयुक्तिवत् // 26 // न चोपदेशवैफल्यमिति / उपदेशवैफल्यं सर्वं क्षणिक सर्व विज्ञानं सर्वमनिर्वचनीयं सर्वं शून्यमित्येवं सुगतवचनलक्षणोपदेशस्य निष्प्रयोजनत्वम्, न च नैव, उपदेशकुर्वद्रूपस्वभावतयोत्पन्नस्य क्षणिकसर्वज्ञानम्वरूपस्य भगवतो बुद्धस्य क्षणिकतथाविधोपदेशरूपार्थक्रियाकर्तृत्वत एवार्थक्रियाकारित्वलक्षणसत्त्वं नान्यथेति यत् सत् तत् क्षणिकमिति नियमोऽपि स्वस्मिन्नुपदेशरूपकार्यकरणत एवेति भवत्युपदेशस्य साफल्यम् , एवं भगवदुपदेशतः सौत्रान्ति कादोनां शिष्याणामन्येषां च श्रोतृणां नैरात्म्यभावना सन्तानतो निरुपप्लवविज्ञानसन्ततिलक्षणापवर्गस्याप्युदय इति परम्परया परमपुरुषार्थसाधनस्य सुगतोपदेशस्य न भवति वैफल्यम्, अर्थक्रिया